रमणी
रमण्य
रमणीय
वाचस्पत्यम्
रमणीय || त्रि० रम्यतेऽत्र रम—आधारे—अनीयर् । सुन्दरे । ततो भावे वुण् । रामणीयक तद्भावे न० ।
शब्दकल्पद्रुमः
रमणीयं || त्रि (रम् + अनीयर् ।)
सुन्दरम् । इत्यमरटीका ॥ (यथा, गीतगोविन्दे । १ । ११ । “वितरसि दिक्षु रणे दिक्पतिकमनीयम् दशमुखमौलिवलिं रमणीयम् ॥”)