संस्कृत-शब्दकोशः

रमावेष्ट रमेश्वर

रमिता

शब्दकल्पद्रुमः

रमिता || त्रि (रम् + णिच् + क्त । टाप् ।)
रति- प्रापिता । यथा, —
“त्वरितगतिर्व्रजयुवतिस्तरणिसुताविपिनगता । मुररिपुणा रतिगुरुणा परिरमिता प्रमद- मिता ॥” इति छन्दोमञ्जरी ॥ “व्रजयुवतिर्गोपबधूः मुररिपुणा श्रीकृष्णन परि- रमिता सती प्रमदं हर्षं इता गता । किम्भूता । त्वरितगतिः त्वरिता शीघ्रा गति- र्यस्याः सा तथा । पुनः किम्भूता तरणिसुता- विपिनगता यमुनासम्बन्धिवनमुपागता । किम्भू- तेन रतिगुरुणा रतौ शृङ्गारे गुरुणा उपा- ध्यायेन । अयमभिप्रायः । स्वयं रतिकुशलो नायिकाञ्च रतिमध्यापयति ।” इति तट्टीका ॥



Correction: