रमिता
रम्भ
रमेश्वर
शब्दकल्पद्रुमः
रमेश्वरः || पुं, (रमाया लक्ष्म्या ईश्वरः पतिर्नियन्ता वा ।)
विष्णुः । यथा, —
“श्रीराम राघव रमेश्वर रावणारे भूतेश मन्मथरिपो प्रमथाधिनाथ । चाणूरमर्द्दन हृषीकपतेऽसुरारे त्याज्या भटा य इति सन्ततमामनन्ति ॥” इति काशीखण्डे हरिहरस्तोत्रम् ॥