वाचस्पत्यम्
रवण || पुंस्त्री० रु—युच् । १ कोकिले सि० कौ० ३ उष्ट्रे च हेमच० स्त्रियां ङीष् । ३ कांस्ये न० हेमच० । ४ शब्दकारके ५ तीक्ष्णे ६ चञ्चले ७ भण्डले च त्रि० शब्दर० ।
शब्दकल्पद्रुमः
रवणं || क्ली (रौतीति । रु + युच् ।)
कांस्यम् । इति हेमचन्द्रः ॥ (रु + भावे ल्युट् ।)
रवश्च ॥
शब्दकल्पद्रुमः
रवणः || त्रि (रु + युच् ।)
शब्दनः । तीक्ष्णः । भण्डकः । चञ्चलः । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
रवणः || पुं, (रौतीति । रु + “सुयुरुवृञो युच् ।” उणा० २ । ७४ । इति युच् ।)
उष्ट्रः । इति हेमचन्द्रः ॥ (यथा, माघे । १२ । ९ । “उत्थातुमिच्छन् विधृतः पुरोबला- न्निधीयमाने भरभाजि यन्त्रके । अर्द्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणःस्फुटार्थताम् ॥”)
कोकिलः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥