संस्कृत-शब्दकोशः

रश रश्मि

रशना

वाचस्पत्यम्

रशना ||‍ स्त्री अश—युच् रशादेशः । १ काञ्च्याम् २ जिह्वायाञ्च शब्दर० । ३ दामनि च “इमामगृभ्नन् रशनामृतस्य” श्रुतिः तत्रार्थे दन्त्यमध्य एवेत्यन्ये ।


शब्दकल्पद्रुमः

रशना || स्त्री (अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अशे रश च ।” उणा० २ । ७५ । इति युच् धातो रशादेशश्च ।)
काञ्ची । इत्युणादिकोषः ॥ (यथा, रघौ । ८ । ५८ । “इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ॥”)
जिह्वा । इति शब्दरत्नावली ॥ (“जिह्वावाची तु रसनाशब्दो दन्त्यसकारवानेव । रसयति स्वादयतीति । नन्द्यादित्वात् ल्युः । इति कलिङ्गः । रसना काञ्चिजिह्वयोरिति तु धरणिः ।” इत्यु- ज्ज्वलः । २ । ७५ ॥ रज्जुः । यथा, वाजसनेय- संहितायाम् । २१ । ४६ । “होता यक्षद्वनस्पतिमभि हि पिष्टतमया रभि- ष्ठया रशनयाधित ।” “रशनया रज्ज्वा कृत्वा अधित धृतवान् पशून् इति शेषः ।” इति तद्भाष्ये महीधरः ॥ अङ्गुलयः । इति निघण्टुः । २ । ५ ॥ अत्र सदा बहुवचनप्रयोगो भवति । इति देव- राजयज्वा ॥)



Correction: