संस्कृत-शब्दकोशः

रशना रश्मिपति

रश्मि

वाचस्पत्यम्

रश्मि ||‍ पु० अश—मि धातोरुट् रश—मि वा । १ किरणे २ अश्वादि दामनि ३ पद्मे न० मेदि० । रवेः रश्मिमेदादिकार्य्यं मत्स्यपु० १०३ अ० उक्तं यथा “तेजोभिः सर्वलोकेभ्यो ह्यादत्ते रश्मिभिर्जलम् । समु- द्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः । ततस्तु पयसां काले परिवर्त्तन् दिवाकरः । नियच्छत्यपो मेघेभ्यः शुक्लाशुक्लैस्तु रश्मिभिः” । कूर्मपु० ४ अ० विस्तरेणोक्तं यथा “एवमेष महादेवो देवदेवः पितामहः । करोति नियतं कालं कालात्मा ह्येश्वरी तनुः । तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः । तषां श्रेष्ठाः पुनः सप्त- रश्मयो ग्रहयोनयः । सुषुम्णोहरिकेशश्च विश्वकर्मा तथैव च । विश्वव्यचाः पुनश्चान्यः सम्पद्दसुरतः प्ररः । अर्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः । सुषुम्णः सूर्य्यरश्मिस्तु पुष्णाति शिशिरद्युसिम् । तिर्य्यगूर्द्ध्वप्रचा- रोऽसौ सुषुम्णःः परिगीयते । हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः । विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा । विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णांति नित्यदा । सम्पद्वसुरिति ख्यातं स पुष्णाति च लो- हितम् । वृहस्पतिं प्रपुष्णाति रश्मिरर्वाग्वसुः प्रभोः । शनैश्चरं प्रपुष्णाति सप्तसश्च स्वराट् तथा । एवं सूर्य्यप्रभावेन सर्वा नक्षत्रतारकाः । वर्द्धन्ते वर्द्धिता नित्यं नित्यमाप्यायवन्ति च । दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्वशः । आदानान्नित्यमादित्यस्तेजसा तमसां प्रभुः । आदत्ते स तु नाडीनां सहस्रेण सम- न्ततः । नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रकम् । स्थावरान् जङ्गर्माश्चैव यच्च कुल्यादिकं पयः । तस्य रश्मिसहस्रन्तु शीतवर्षोष्णनिस्रवम् । तासां चतुः- शतं नाद्ध्यो वर्षन्ते चित्रमूर्त्तयः । छन्दनाश्चैव वाह्याश्च कोतनाभृकणास्तथा । अमृता नामतः सर्वा रश्मयो वृष्टि- सर्जनाः । हिमोद्वहाश्च तामस्यो रश्मयस्त्रिशतं पुनः । वश्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्जनाः । चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः । शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा । शुक्रास्ता नामतः सर्वास्त्रिविधा धर्मसर्जनाः । समं विभर्त्ति ताभिः स मनुष्यपितृ- देवताः । मनुष्यानौषधेनेह स्वधया च पितॄनपि । अमृतेन सुरान् सर्वान् त्विषा त्रीस्तर्पयत्यसौ । वसन्ते ग्रीष्मके चैव शतैः सन्तर्पति त्रिभिः । शरद्यपि च वर्षासु चतुर्भिः स प्रवर्षति । हेमन्ते शिशिरे चैव हिममुत्- सृजति त्रिभिः । वरुणो १ माथमासे तु सूर्य्यः पूषा २ तु फाल्गुने । चैत्रे ३ मासि भवेदीशो धाता ४ वैशास्यतापनः । ज्यैष्ठमासे भवेदिन्द्र ५ आषाढे सविता ६ रविः । विव ७ स्वान् श्रावणे मासि प्रौष्ठपद्यां भगः ८ स्मृतः । पर्जन्यो ९- ऽश्वयुजि त्वष्टा १० कार्त्तिके मासि भास्करः । मार्गशीर्षे भवेन्मित्रः ११ पौषे विष्णुः सनातनः । पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि । षड्भिः सहस्रैः पूषा तु देवेशः सप्त- भिस्तथा । धाता ष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः । विवस्वान् दशभिः पाति पात्येकादशभिर्भगः । सप्तभि- स्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् । अर्य्यमा दशभिः वाति पर्जन्यो नवभिस्तपेत् । षड्भीरश्मिसहस्रैस्तु विष्णुस्तपति विश्वधृक् । वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसंप्रभः । श्वेतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः । हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितो रविः । ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ । सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति । अन्ये चाष्टौ ग्रहाः ज्ञेयाः सूर्य्येणाधिष्ठिता द्विजाः! । चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव वृहस्पतिः । भौमो भानुसुतो राहुः केतुमानपि चाष्टमः । सर्वे ध्रुवे निबद्धा ये ग्र- हास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रम- न्त्यनुदिवाकरम्” ।


शब्दकल्पद्रुमः

रश्मिः || पुं, (अश्नुते व्याप्नोतीति । अशू व्याप्तौ + “अश्नोते रश्च ।” उणा० ४ । ४६ । इति मिः धातो रशादेशश्च ।)
किरणः । (यथा, मनौ । ५ । १३३ । “मक्षिका विप्रुषश्छाया गौरश्वः सूर्य्यरश्मयः । रजो भूर्व्वायुरग्निश्च स्पर्शे मेध्यानि निर्द्दिशेत् ॥”)
पक्ष्म । अश्वरज्जुः । इति मेदिनी ॥ * ॥
(यथा, ऋग्वेदे । १ । २८ । ४ । “यत्र मन्थां विबध्नते रश्मीन् यमित वा इव ॥” “रश्मीन् अश्वबन्धनार्थान् प्रग्रहान् ।” इति तद्भाष्ये सायणः ॥)
सूर्य्यस्य रश्मिना जलादान- दाने यथा, —
“तेजोभिः सर्व्वलोकेभ्यो ह्यादत्ते रश्मिभिर्ज्जलम् । समुद्राद्बायुसंयोगाद्बहन्त्यापो गभस्तयः ॥ ततस्तु पयसां काले परिवर्त्तन्दिवाकरः । नियच्छत्यपो मेघेभ्यः शुक्लाशुक्लैस्तु रश्मिभिः ॥” इति मात्स्ये १०२ अध्यायः ॥ * ॥
अपि च । “एवमेष महादेवो देवदेवः पितामहः । करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥ तस्य ये रश्मयो विप्राः सर्व्वलोकप्रदीपकाः । तेषां श्रेष्ठा पुनः सप्त रश्मयो ग्रहयोनयः ॥ सुसुग्नो हरिकेशश्च विश्वकर्म्मा तथैव च । विश्वव्यचाः पुनश्चान्यः सम्पद्बसुरतः परः ॥ अर्व्वाग्वसुरिति ख्यातः स्वराडन्यः प्रकीर्त्तितः ॥ सुसुम्नः सूर्य्यरश्मिस्तुं पुष्णाति शिशिरद्युतिम् । तिर्य्यगूर्द्ध्वप्रचारोऽसौ सुसुम्नः परिगीयते ॥ हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः । विश्वकर्म्मा तथा रश्मिर्ब्बुधं पुष्णाति सर्व्वदा ॥ विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा । सम्पद्वमुरिति ख्यातः स पुष्णाति च लोहितम् ॥ बृहस्पतिं प्रपुष्णाति रश्मिरर्व्वाग्वसुः प्रभोः । शनैश्चरं प्रपुष्णाति सप्तमश्च स्वराट् तथा ॥ एवं सूर्य्यप्रभावेन सर्व्वा नक्षत्रतारकाः । वर्द्धन्ते वर्द्धिता नित्यं नित्यमाप्याययन्ति च ॥ दिव्यानां पार्थिवानाञ्च नैशानाञ्चैव सर्व्वशः । आदानान्नित्यमादित्यस्तेजसा तमसां प्रभुः । आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥ नादेयांश्चैव सामुद्रान् कूपांश्चैव सहस्रकम् । स्थावरान् जङ्गमांश्चैव यच्च कुल्यादिकं पयः ॥ तस्य रश्मिसहस्रन्तु शीतवर्षोष्णनिस्रवम् । तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्त्तयः ॥ छन्दनाश्चैत याह्याश्च कोतणा भृकणास्तथा । अमृता नामतः सर्व्वा रश्मयो वृष्टिसर्ज्जनाः ॥ हिमोद्बहाश्च तामस्यो रश्मयस्त्रिशतं पुनः । वश्यो मेष्यश्च पैष्यश्च ह्रादिन्यो हिमसर्ज्जनाः । चन्द्रास्ता नामतः सर्व्वाः पीताभाः स्युर्गभस्तयः । शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा । शुक्रास्ता नामतः सर्व्वास्त्रिविधा धर्म्मसर्ज्जनाः ॥ समं विभर्त्ति ताभिः स मनुष्यपितृदेवताः । मनुष्यानौषधेनेह स्वधया च पितॄनपि ॥ अमृतेन सुरान् सर्व्वान्तिसस्त्रींस्तर्पयत्यसौ । वसन्ते ग्रीष्मके चैव शतैः सन्तर्पति त्रिभिः ॥ शरद्यपि च वर्षासु चतुर्भिः संप्रवर्षति । हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥ वरुणो माघमासे तु सूर्य्यः पूषा तु फाल्गुने । चैत्रै मासि भवेदीशो धाता वैशाखतापनः ॥ ज्यैष्ठमूले भवेदिन्द्र आपाढे सविता रविः । विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः ॥ पर्य्यण्योऽश्वयुजि त्वष्टा कार्त्तिके मासि भास्करः । मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ॥ पञ्च रश्मिसहस्राणि वरुणस्यार्ककर्म्मणि । षड्भिः सहस्रैः पूषा तु देवेशः सप्तभिस्तथा ॥ धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः । विवस्वान् दशभिः पाति पात्येकादशभिर्भगः ॥ सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् । अर्य्यमा दशभिः पाति पर्य्यण्यो नवभिस्तपेत् ॥ षड्भी रश्मिसहस्रैस्तु विष्णुस्तपति विश्वधृक् । वसन्ते कपिलः सूर्य्यो ग्रीष्मे काञ्चनसप्नभः ॥ श्वतो वर्षासु वर्णेन पाण्डरः शरदि प्रभुः । हेमन्ते ताम्रवर्णः स्यात् शिशिरे लोहितो रविः ॥ औषधीषु बलं धत्ते स्वधामपि पितृष्वथ । सूर्य्योऽमरत्वममृतत्रयं त्रिषु नियच्छति ॥ अन्ये चाष्टौ ग्रहाः ज्ञेयाः सूर्य्ये चाधिष्ठिता द्विजाः । चन्द्रमाः सोमपुत्त्रश्च शुक्रश्चैव बृहस्पतिः ॥ भौमो भानुस्तथा राहुः केतुमानपि चाष्टमः । सर्व्वे ध्रुवे निरुद्धा ये ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥” इति कौर्म्म्ये ४० अध्यायः ॥ तद्वैदिकपर्य्यायः । खेदयाः १ किरणाः २ गावः ३ रश्मयः ४ अभीशवः ५ दीधितयः ६ गभ- स्तयः ७ वनम् ८ उस्राः ९ वसवः १० मरी- चिपाः ११ मयूखाः १२ सप्तऋषयः १३ साध्याः १४ सुपर्णाः १५ । इति पञ्चदश रश्मि- नामानि । इति वेदनिघण्टौ । १५ ॥



Correction: