संस्कृत-शब्दकोशः

रश्मिपति रसक

रस

वाचस्पत्यम्

रस ||‍ आस्वादे अ० चु० उ० सक० सेट् । रसयति ते अररसत् त


वाचस्पत्यम्

रस ||‍ पु० रस्यते रस—अच् । आस्वाद्ये रसनेन्द्रियग्राह्ये १ मधु- र्य्यादिगुणभेदे २ देहस्थे भुक्तान्नादेः प्रथमपरिणामे ३ सारे च “ओषधीनां रसः” इति ताण्ड्यब्रा० “रसः सारः” भा० । ४ धातुभेदे पारदे ५ माधुर्य्या दरसवति गुडादौ त्रि० ६ पुष्पस्य मधुनि ७ अलङ्कारोक्ते विभावानुभावसञ्चारि- काभावव्यङ्ग्ये रत्यादिस्थायिभावके शृङ्गारादौ । ८ विषे ९ वीर्य्ये १० रागे ११ द्रवे अमरः १२ जले च १३ गन्धरसे पुंन० मेदि० १४ अन्ने च निघण्टुः । पारदशब्दे ४३११ पृष्ठादौ रसशोधनादि दृश्यम् । देहस्थधातुहेतुरसस्वरूपादि भावप्र० उक्तं यथा “यत्पाथो रसधातुर्यस्ततोऽभवदपां रसः । सद्रवं सकलं देहं रसतीति रसः स्मृतः ।” अथ रसस्य स्वरूपमाह “सम्यक् पक्वस्य भुक्तस्य सारो निगदितो रसः । स तु द्रवः सितः शीतः स्वादुः स्निग्धश्चलो भवेत् । सारो यथा गुडमधूकपुष्पबकुलत्वग्वदरीमूलादिभवः सारो मदिरा । अथ रसस्य स्थानमाह “सर्वदेह चरस्यासि रसस्य हृदयं स्थलम् । समानसरुता पूर्वं यदयं हृदये धृतः ।” अथ रसस्य कर्माण्याह “आरुह्य धननीर्गत्वा धातून् सर्वानयं रसः । पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः ।” गुणैः शीतस्निग्ध- पोषकत्वगुणैः शीतस्निग्धपोषकत्वैः “मन्दवह्निविदग्धस्तु कटुर्वाम्लो भवेद्रसः । स कुर्य्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि ।” असृक्करशब्दे दृश्यम् । अलङ्कारशास्त्रोक्तो रसो नवविधः । “शृङ्गारहास्यकरुण रौद्रवीरभयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसा शान्तस्तथा मतः ।” सा० द० तल्लक्षणं तत्रैव यथा “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम्” । “विभावादयो वक्ष्यन्ते । सात्त्विकाश्चानुभावरूपत्वात् न पृथगुक्ताः । व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतः व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते । तदुक्तं लोचनकारैः “रसाः प्रतीयन्त इति त्वोदनं पचती- तिवद्यवहार इति” । अत्र च रव्यादिपदोपादानादेव प्राप्ने स्थायित्वे पुनः स्थायिपदोपानं रत्यादीनामपि रसा- न्तरेष्वस्थायित्वप्रतिपादनार्थम् । ततश्च हासक्रोधादयः शृङ्गारवीरादौ ष्यभिचारिण एव । तदुक्तम् “रसावस्थः परं भावः स्थायितां प्रतिपद्यते” इति । अस्य स्वरूप- कथनगर्भ आस्वादप्रकारः कथ्यते । “सत्त्वोद्रेकादखण्ड- स्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वाद- सहोदरः । लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमातृभिः । स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः । रजस्तमोभ्या- मस्पृष्टं मनः सत्त्वमिहोच्यते” इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं तस्यो- द्रेक० रजस्तमसी अभिभूयाविर्भावः । अच च हेतुस्तथा- विधालौकिकक्राव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विमावादिरत्यादिप्रकाशसुखचमत्कारात्मकः । अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्तार- रूपो विस्मयापरपर्य्यायः । तत्प्राणत्वञ्चास्मद्बृद्धप्रपिता- महसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नायणपादै- रुक्तं । तदाह धर्मदत्तः स्वग्रन्थे “रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कार- सारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसमिति” । “कैश्चिदिति प्राक्तनपुण्यशाखिभिः तदुक्तं “पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिमिति” यद्यपि “स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः” इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तं तथापि “रसः स्वाद्यते” इति काल्पनिकं भेदमुररीकृत्य कर्मकर्त्तरि वा प्रयोगः । तदुक्तम् “रस्यमानतामात्रसारत्वात् प्रकाश- परीरादनन्य एव हि रसः” इति । एवमन्यत्राप्येवं- विधस्थलेषूपचारेण प्रयोगा ज्ञेयाः । नन्वेतावता रस- स्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेष- त्वाद् द्वयोरैक्यमापतिज् ततश्च “स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः । यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात्” इत्युक्तदिशा षटप्रदीपवद् व्यङ्ग्यव्यञ्जकाः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत् सत्यमुक्तम् अत एवाहुः “विलक्षण एवायं गतिज्ञाप्तभेदेभ्यः स्वादनाख्यः कस्तिद्व्यापारः । अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशा इति अभिधादिविलक्षणव्यापारतायाः प्रसाधन- ग्रहिलैराताभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति । ननु तर्हि करुणादीनां रसानां दुःखमयत्वाद्रसत्वं न स्यादि- न्युच्यते” “करुणादावपि रसे जायते यत् परं ञ्चुखम् । सचेतसामनुभवः प्रमाणं तत्र केवलम्” । आदिशब्दाद् वीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते । “किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः” । न हि कश्चित् सचेता आत्मनो दुःखाय प्रवर्त्तते करुणादिषु च सकलस्यापि साभि- निवेशप्रवृत्तिदर्शनात् । अनुपपत्त्यन्तरमाह । “तथा रामायणादीनां भविता दुःखहेतुता” । “करुणरसस्य दुःखहेतुत्वात् करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुत्वप्रसङ्गः स्यात् । ननु कथं दुःखकारणेभ्यः सुखोत्पत्तिरित्याह “हेतुत्वं शोकहर्षादेर्गतेभ्यो लोक- संश्रयात् । शोकहर्षादयो लोके जायन्तां नाम लौ- किकाः । अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् । सुखं संजायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः” । ये खलु रामवनवासादयो लोके दुखकारणानि इत्यु- च्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभा- वनव्यापारवत्तया कारणशब्दवाच्यत्वं विहायालौकिक- विभावशब्दवाच्यत्वं भजन्ते । तेभ्यश्च सुरते दन्तघाता- दिभ्य इव सुखमेव जायते । अतश्च लौकिकशोकहर्षा- दिकारणेभ्यो लौकिकशोकहर्षादयो जायन्ते इति लोक एव प्रतिनियमः । काव्ये पुनः सर्वेभ्योऽपि विमावादिभ्यः सुखमेव जायते इति नियमान्न कश्चिद्- दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्य- येरपि दर्शनश्रुवणाभ्यामश्रुपातादयो जायन्त इत्युच्यते । “अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः” । तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्याह “न जायते तदास्वादो विना रत्यादिवासनाम्” । वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः । तत्र यदि आद्या न स्याच्छ्रोत्रियजरन्मीमांसकादीनामपि सा स्यात् । यदि द्वितीया न स्याद् यद्रागिणामपि केषा- ञ्चिद्रसोद्बोधो न दृश्यते तन्न स्यात् । उक्तञ्च धर्मदत्तेन “सवासनानां सभ्यानां रसस्यास्वादनं भवेत् । निर्वा- सनास्तु रङ्गान्तःकाष्ठकुड्याश्मसन्निभाः” इति । ननु कथं रामादिरत्याद्युद्बोधकारणैः सीतादिभिः सामाजिक- रत्याद्युद्बोध इत्युच्यते “व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः । तत्प्रभावेन यस्यासन् पाथोधिप्लव- नादयः । समाता तदभेदेन स्वात्मानं प्रतिपद्यते” । “ननु कथं मनुष्यमात्रस्य समुद्रलङ्गनादावुत्साहोद्बोध इत्यु- च्यते “सत्माहादिसमुद्बोधः साधारण्यामिमागतः । नॄणामपि समुद्रादिलङ्घनादौ न दुष्यति” । रत्यादयोऽपि साधारण्येन प्रतीयन्त इत्याह साधारण्येन रत्या- दिरपि तद्वत् प्रतीयते” । रत्यादेरपि ह्यात्मगतत्वेन प्रतीतौ सभ्यानां व्रीडातङ्कादिर्भवेत् परगतत्वेन त्वरस्य- तापातः विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्ते इत्याह “परस्य न परस्येति ममेति न ममेति च । तदास्वादे विभावादेः परिच्छेदो न विद्यते” । ननु तथापि कथमेवमलौकिकत्वमेतेषां विभावादीनामित्युच्यते “विभावनादिव्यापारमलौकिकमुपेयुषाम् । अलौकिकत्व- मेतेषां भूषणं न तु दूषणम्” । आदिशब्दादनुभावन- सञ्चारणे । तत्र विमावनं रत्यादेर्विशेषेणास्वादाङ्कुरण- योग्यतानयनम् । अनुभावनमेवम्भूतस्य रत्यादेः समन- न्तरमेव रसादिरूपतया भावनम् । सञ्चारणं तथाभूतस्यै- तस्य सम्यक्चारणम् । विभावादीनां यथासङ्क्यं कारण कार्य्यसहकारित्वे कथं त्रयाणामपि रसीद्बोधे कारणत्व- मित्युच्यते “कारणं कार्य्यसञ्चारिरूपा अपि हि लोकतः । रसोद्बोधे विभावाद्याः कारणान्येव ते मताः” । ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते “प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते । ततः संवलितः सर्वो विभावादिः सचेतसाम् । प्रपानकरसन्यायाच्चर्व्य- माणोरसो भवेत्” । यथा खण्डमरिचादीनां सम्मेलनादपूर्व इव कश्चिदास्वादः प्रपानकरसे संजायते विभावादिसम्मे- लनादिहापि तथेत्यर्थः । ननु यदि विभावानुभावव्यभि- चारिभिर्मिलितैरेव रसस्तत् कथं एकस्य द्वयोर्वा सद्भावेऽपि स स्यादित्युच्यते “सद्भावश्चेद्विभावादेर्द्वयोरकस्य वा भवेत् । झटित्यन्यसमाक्षेपे तदा दोषो न विद्यते” । अन्यसमाक्षेपश्च प्रकरणादिवशात् । यथा “दोर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः सङ्खिप्तं निवि- डोन्नतस्ततमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमिनो नितम्बि जघनं पादावुदग्राङ्गुली छन्दो नर्त्तयितुर्यथैव मनसः सृष्टं तथास्या वपुः” । “अत्र मालबिकामभि- लष्यतोऽग्निमित्रस्य मालविकारूपविभावमात्रवर्णने सञ्चा- रिणामौत्सुक्यादीनामनुभावानाञ्च नयनविस्फार दीना- मौचित्यादेवाक्षेपः । एवमन्याक्षेपेऽप्यूह्यम् । “अनुकार्य्यगतो रसः” इति वदतः प्रत्याह “पारिमित्याल्लौकिकत्वात् सान्तरायतया तथा । अनुकार्य्यस्य रत्यादेरुद्बोधो न रसो भवेत्” । सीतादिदर्शनादिजो रामादिरत्याद्युद्- बोधो हि परिमितो लौकिको, नाट्यकाव्यदर्शनादेः सान्तरायश्च । तस्मात् कथं रसरूपतामियात् । रसस्यै- तद्धर्मत्रितयविलक्षणधर्मकत्वात् । अनुकर्तृगतत्वञ्चास्य नि रस्यति “शिक्षाभ्यासादिमात्रेण राघवादेः स्वरूपतम् । दर्शयन् नर्त्तको नैव रसस्यास्वादको भवेत्” । किञ्च काव्यार्थाभावने नायमपि सभ्यपदास्पदम् । यदि पुन- र्नटोऽपि काव्यार्थभावनया रामादिरूपतामात्मनो दशयेत् तदा सोऽपि सभ्यमध्य एव गण्यते” । द्रव्यगतमधुरादिरसकारणादिकं सुश्रुते उक्तं यथा “अथातो रसविशेषविज्ञानीयमध्यायं व्याख्यास्यामः । आकाशपवनदहनतोयभूमिषु यथासङ्ख्यमेकोतर- परिवृद्धाः शब्दस्पर्शरूपरसगन्धाः । तस्मादाप्यो रसः परस्परससर्गात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च सर्वेषु सर्वेषां सान्निध्यमस्त्थुत्कर्षापककर्षात्तु ग्रहणम् । स खल्वाप्योरसः शेषभूतसंसर्गाद्विभक्तः षोढा विभ- ज्यते । तद्यथा मधुरोऽम्ला लवणः कटुकस्तिक्तः कषाय इति । ते च भूयःपरस्परसंसर्गात् त्रिषष्टिधा भिद्यन्ते । तत्र भूम्यम्बुगुणबाहुल्यान्मधुरः १ । भूम्यग्नि- गुणबाहुल्यादम्लः २ । तोयाग्निगुणबाहुल्याल्लवणः ३ वाय्व- ग्निगुणबाहुल्यात् कटुकः ४ । वाय्वाकाशगुणबाहुल्या- त्तिक्तः ५ । पृथिव्यनिलगुणबाहुल्यात् कषायः ६ इति । तत्र मधुराम्ललवणा वातघ्नाः । मधुरतिक्तकषायाः पित्तघ्नाः । कटुतिक्तकषायाः श्लेष्मघ्नाः तत्र वायुरात्मनैवात्मा पित्त- माग्नेयं श्लेष्मा सौम्य इति । त एव रसाः स्वयोनि- वर्द्धना अन्ययोनिप्रशमनाश्च” ।


वाचस्पत्यम्

रस ||‍ स्वने भ्वा० प० अक० सेट् । रसति अरासीत् अरसीत् । ररास रेसतुः ।


शब्दकल्पद्रुमः

रसं || क्ली बोलम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

रस || त् क आस्वादे । स्नेहे । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।)
दन्त्योपधः । रसयति मधु द्विरेफः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रसः || पुं, (रसतीति । रस् + पचाद्यच् । यद्बा, रस्यते इति । रस आस्वादने + “पुंसि संज्ञायां घः प्रायेण ।” ३ । ३ । ११८ । इति घः ।)
रसनेन्द्रियग्राह्य- वस्तु । स च कालसहायभूमिवियदनिलानलसंस- र्गेण परिणामान्तरं गतः षट्प्रकारो भवति । तत्र पृथिव्यम्बुगुणबाहुल्यान्मधुरः १ तोयाग्नि- गुणबाहुल्यादम्लः २ पृथिव्यग्निगुण बाहुल्या- ल्लवणः ३ वाय्वग्निगुणबाहुल्यात् कटुकः ४ वाय्वाकाशगुणबाहुल्यात् तिक्तः ५ पृथिव्यनिल- गुणबाहुल्यात् कषायः ६ । आपो रसाना- माधारकारणं अत आप्यो नाम । अपां पृथिव्यामनुप्रवेशात् पृथिव्याप्याधारकारणमेव । तेन जलक्षिती अपि तदाधारतया रसाना- मभिव्यक्तौ कारणे । अभिव्यक्तेश्च मधुरादिरूप- मन्तरेणासम्भवान्मधुरादिविशेषेऽपि जलक्षिती कारणे । अग्न्यादयस्तु त्रयः नीरसतया मधु- रादिविशेषे प्राधान्येन निमित्तकारणम् । तद्व्यतिरेकेणाम्लादिरसाभावात् । रसाभिव्यक्तेश्च अग्न्यादिभूतत्रयसन्निधानं विनानुपलब्धेरभि- व्यक्तावपि अग्न्यादीनां कारणत्वम् । तदुक्तं चरके । “रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा । निर्व्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः ॥” एते च रसाः परस्परसंयोगात् सप्तपञ्चाशद्भ वन्ति । इति चक्रपाणिदत्तकृतद्रव्यगुणोपरि शिवदासीयटीका ॥ * ॥
(तथाच । “भेदश्चैषां त्रिषष्टिविधिविकल्पो द्रव्यदेशकाल- प्रभावात्तदुपदेक्ष्यामः । स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक् । यानि पञ्चदशैतानि द्रव्याणि द्विरसानि तु ॥ पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत् । मधुरस्य तथाम्लस्य लवणस्य कटोस्तथा ॥ त्रिरसानि यथासङ्ख्यं द्रव्याण्युक्तानि विंशति । वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च ॥ स्वाद्बम्लौ सहितौ योगं लवणाद्यैः पृथग् गतौ योगैः शेषं पृथग्यातश्चतुष्कं रससङ्ख्यया ॥ सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक् । युक्तौ शेषैः पृथग् योगं यातः स्वादूषणौ तथा ॥ कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक् । यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा ॥ युज्येते तु कषायेण सतिक्तौ लवणोषणौ । षट् तु पञ्च रसान्याहुरेकैकस्यापवर्ज्जनात् ॥ षट् चैवैकरसानि स्युरेकं षड्रसमेव तु । इति त्रिषष्टिर्द्रव्याणां निर्द्दिष्टा रससङ्ख्यया ॥ त्रिषष्टिः स्यात्त्वसङ्खेया रसानुरसकल्पनात् । रसास्तरतमाभ्यस्ताः सङ्ख्यामतिपतन्ति हि ॥ संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा । रसानां तत्र योग्यत्वात् कल्पिता रसचिन्तकैः ॥ क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित् । दोषौषधादीन् सञ्चिन्त्य भिषजा सिद्धि- मिच्छता ॥” परञ्चातः प्रवक्ष्यन्ते रसानां षड्विभक्तयः । षट्पञ्चभूतप्रभवाःसङ्ख्याताश्च यथा रसाः ॥” “सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृति शीता लघुश्च अव्यक्तरसाश्च तास्त्वन्तरिक्षाद्भ्रश्य- मानाभ्रष्टाश्च पञ्च महाभूतगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्त्तीरभिप्रीणयन्ति यासु मूर्त्तिषु षडभिमूर्च्छन्ति रसाः । तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः पृथिव्यग्निभूयिष्ठत्वादम्लः सलिलाग्नि- भूयिष्ठत्वाल्लवणो वाय्वग्निभूयिष्ठत्वात् कटुको वाय्वाकाशातिरेकात्तिक्तः पवनपृथिव्यतिरेकात् कषायः । एवमेषां रसानां षट्त्वमुत्पन्नम् ॥” इति च चरके सूत्रस्थाने २६ आध्यायः ॥ तथाच । “दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः । त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते ॥ अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा । रसभेदत्रिषष्टिस्तु वीक्ष्य वीक्ष्यावचारयेत् ॥ एकैकेनानुगमनं भागशो यदुदीरितम् । दोषाणां तत्र मतिमान् त्रिषष्टिन्तु प्रयोजयेत् ॥ यथाक्रमं प्रवृत्तानां द्विकेषु मधुरो रसः । पञ्चानुक्रमते योगानम्लश्चतुर एव च ॥ त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम् । तिक्तः कषायमन्वेति ते द्विक दश पञ्च च ॥ तद्यथा । मधुराम्लः । मधुरलवणः । मधुर- तिक्तः । मधुरकटुकः । मधुरकषायः । एते पञ्चानुक्रान्ता मधुरेण ॥ अम्ललवणः । अम्ल- कटुकः । अम्लतिक्तः । अम्लकषायः । एते चत्वारोऽनुक्रान्ता अम्लेन ॥ लवणकटुकः । लवणतिक्तः । लवणकषायः । एते त्रयोऽनु- क्रान्ता लवणेन ॥ कटुतिक्तः । कटुकषायः । द्बावेतावनुक्रान्तौ कटुकेन ॥ तिक्तकषाय एक एवानुक्रान्तस्तिक्तेन । एते पञ्चदशद्विकसंयोगा व्याख्यातास्त्रिकं वक्ष्यामः ॥ आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति । षडम्लो लवणस्तस्मादर्द्धन्त्वेकं रसः कटुः ॥ मधुराम्ललवणः । मधुराम्लकटुकः । मधुराम्ल- तिक्तः । मधुराम्लकषायः । मधुरलवणकटुकः । मधुरलवणतिक्तः । मधुरलवणकषायः । मधुर- कटुकतिक्तः । मधुरकटुकषायः । मधुरतिक्त- कषायः । एवमेषां त्रिकसंयोगानां दशानामादौ मधुरः प्रयुज्यते । अम्ललवणकटुकः । अम्ल- लवणतिक्तः । अम्ललवणकषायः । अम्लकटु- कषायः । अम्लकटुकतिक्तः । अम्लतिक्तकषायः । एवमेषां षण्णामादावम्लः प्रयुज्यते । लवणकटु- तिक्तः । लवणकटुकषायः । लवणतिक्तकषायः । एवमेषां त्रयाणामादौ लवणः प्रयुज्यते ॥ कटु- तिक्तकषायः । एवमेकस्यादौ कटुकः प्रयुज्यते ॥ एवमेति त्रिकसंयोगविंशतिर्व्याख्याताः ॥ चतु- ष्कान् वक्ष्यामः । चतुष्करससंयोगान्मधुरो दश गच्छति । चतुरोऽम्लस्तु गच्छेच्च लवणस्त्वेकमेव तु ॥ मधुराम्ललवणकटुकः । मधुराम्ललवणतिक्तः । मधुराम्ललवणकषायः । मधुराम्लकटुकतिक्तः । मधुराम्लकटुककषायः । मधुरलवणतिक्तकटुकः । मधुराम्लतिक्तकषायः । मधुरलवणकटुतिक्तः । मधुरलवणकटुकषायः । मधुरलवणतिक्तकषायः । एवमेषां दशानामादौ मधुरः प्रयुज्यते ॥ अम्ललवणकटुकतिक्तः । अम्ललवणकटुकषायः । अम्ललवणतिक्तकषायः । अम्लकटुतिक्तकषायः । एवमेषां चतुर्णामम्लः ॥ लवणकटुतिक्तकषायः । एवमेकस्यादौ लवणः । एवमेते चतुष्करससंयोगाः पञ्चदशकीर्त्तिताः ॥ पञ्चकान् वक्ष्यामः । पञ्चकान् पञ्चमधुर एकमम्लस्तु गच्छति । मधुराम्ललवणकटुतिक्तः । मधुराम्ललवणकटु- कषायः । मधुराम्ललवणतिक्तकषायः । मधु- राम्लकटुतिक्तकषायः । मधुरलवणकटुतिक्त- कषायः । एवमेषां पञ्चानां पञ्चकरससंयोगाना- मादौ मधुरः प्रयुज्यते ॥ अम्ललवणकटुतिक्त- कषायः । एवमेकस्यादावम्लः प्रयुज्यते । एवमेते षट्पञ्चकसंयोगा व्याख्याताः ॥ षट्कमेकं वक्ष्यामः । एकस्तुषट्कसंयोगः मधुराम्ललवण- कटुकतिक्तकषायः । एवमयमेकषट्संयोगः ॥ एकैकश्च षड्रसा भवन्ति । मधुरोऽम्लो लवणः कटुकस्तिक्तः कषाय इति । भवति चात्र । एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः । दोषभेदे त्रिषष्टिस्तु प्रयोक्तव्या विचक्षणैः ॥” इत्युत्तरतन्त्रे सुश्रुतेन त्रिषष्टितमेऽध्याय उक्तः ॥ “रसास्तु प्रधानं कस्मादागमादागमो हि शास्त्र- मुच्यते शास्त्रे हि रसा अधिकृता यथा रसायत्त आहार इति तस्मिंश्च प्राणाः । उपदेशा- च्चोपदिश्यन्ते हि रसाः । यथा मधुराम्ललवणा वातं शमयन्ति । अनुमानाच्च रसेन ह्मनुमीयते द्रव्यं यथा मधुरमिति । ऋषिवचनाच्च ऋषि- वचनं वेदो यथा किञ्चिदिज्यार्थं मधुरमा- हरेदिति । तस्माद्रसाः प्रधानं रसेषु गुणसंज्ञा ।” इति च सुश्रुते सूत्रस्थाने ४० अध्याये ॥ यथा च, वाग्भटे १० अध्याये । “क्ष्माम्भोऽग्निः क्ष्माम्बुतेजः खवायुग्न्यनिल- गोऽनिलैः । द्वयोल्वणैः क्रमाद्भूतैर्म्मघुरादिरसोद्भवः ॥ तेषां विद्याद्रसं स्वादुं यो वक्त्रमनुलिम्पति । आस्वाद्य मानो देहस्य ह्लादनोऽक्षप्रसादनः ॥ प्रियः पिपिलिकादीनां अम्लः क्षालयते सुखम् । हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः ॥ लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत् । तिक्तो विशदयत्यास्यं रसनं प्रतिहन्ति च । उद्बेजयति जिह्वाग्रं कुर्व्वंश्चिमिचिमां कटुः ॥ स्रावयत्यक्षिनासास्यं कपोलौ दहतीव च । कषायो जडयेज्जिह्वां कण्ठस्रोतो विबन्धकृत् ॥ रसानामिति रूपाणि कर्म्माणि मधुरो रसः । आजन्मसात्म्यात् कुरुते धातूनां प्रबलं बलम् ॥ बालवृद्धक्षतक्षीणवर्णकेशेन्द्रियौजसम् । प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः ॥ आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः । कुरुतेऽत्युपयोगेन सम्मेदः कफजान् गदान् ॥ स्थौल्वाग्निसादसन्न्यासमेहगण्डार्व्वुदादिकान् ॥ अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः । उष्णवीर्य्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः ॥ करोति कफपित्तास्रं मूढवातानुलोमनम् । सोऽत्यभ्यस्त स्तनोः कुर्य्याच्छैथिल्यं तिमिरं भ्रमम् ॥ कण्डूपाण्डुत्ववीसर्पशोकविस्फोटतृड्ज्वरान् ॥ लवणः स्तम्भसंघातबन्धविध्मापनोऽग्निकृत् । स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत् ॥ सोऽतियुक्तोऽस्रपवनं खलतिं पलितं बलिम् । तृटकुष्ठविषवीसर्पान् जनयेत् क्षपयेद्बलम् ॥ तिक्तः स्वयमरोचिष्णुररुचिं कृमितृट्विषम् । कुष्ठमूर्च्छाज्वरोत्क्लेशदाहपित्तकफान् जयेत् ॥ क्लेदमेदो वसामज्जशकृम्मूत्रोपशोषणः । लघुर्मेध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः ॥ धातुक्षयानिलव्याधीनतियोगात् करोति सः ॥ कटुर्गलामयोदर्द्दकुष्ठालसकशोफजित् । व्रणावसादनस्नेह मेदः क्लेदोपशोषणः ॥ छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः । कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम् ॥ मूर्च्छ्रामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम् । कषायः पित्तकफहा गुरुरस्रविशोधनः । पीडनो रोपणः शीतः क्लेदमेदोविशोषणः ॥ आमसं स्तम्भनो ग्राही रूक्षोऽतित्वक्प्रसादनः । करोति शीलितः सोऽतिविष्टम्भाघ्मानहृद्रुजः ॥ तृट्कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान् ॥ घृतहेमगुडाक्षोडमोचचोचपरूषकम् । अभीरुवीरापनसराजादनबलात्रयम् ॥ मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ । मधूकं मधुकं बिम्बी विदारी श्रावणीयुगम् ॥ क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे । क्षीरेक्षुगोक्षुरक्षौद्रद्राक्षादिर्मधुरो गणः ॥ अम्लो धात्रीफलाम्लीकामातुलुङ्गाम्लवेतसम् । दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि । आम्रमाम्रातकं भव्यं कपित्थं करमर्द्दकम् ॥ वरं सौवर्चलं कृष्णं विडं सामूद्रमौद्भिदम् ॥ रोमकं पांसुजं शीसं क्षारश्च लवणो गणः । तिक्तः पटोली त्रायन्ती बालकोशीरचन्द- नम् । भूनिम्बनिम्बकटुकातगरागुरुवत्सकम् ॥ नक्तमालद्विरजनीमुस्तमूर्वाटरूषकम् । पाठापामार्गकांस्यायोगुडूचीधन्वयासकम् । पञ्चमूलं महद्ब्याघ्र्यौ विशालातिविषा वचा ॥ कटुको हिङ्गुमरिचकृमिजित्पञ्चकोलकम् । कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम् ॥ वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु । कदम्बोडुम्बरं मुक्ताप्रबालाञ्जनगैरिकम् । बालं कपित्थं खर्जूरं विसपद्मोत्पलादि च ॥ मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते । मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गला- मिषात् ॥ प्रायोऽम्लं पित्तजननं दाडिमामलकादृते । अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात् ॥ तिक्तं कटु च भूयिष्ठमबृष्यं वातकोपनम् । ऋतेऽमृतापटोलीम्यां शुण्ठीकृष्णारसोनतः ॥ कषायं प्रायशः शीतं स्तम्भनं चाभयामृते ॥ रसा कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम् । तिक्तः कषायो मधुरस्तद्वदेव च शीतलः ॥ तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा ॥ पट्वम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुता ॥ पटोः कषायस्तस्माच्च मधुरः परमं गुरुः ॥ लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः । संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा । रसानां यौगिकत्वेन यथास्थूलं विभज्यत ॥ एकैकहीनांस्तान् पञ्च पञ्च यान्ति रसा द्बिके । त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एक- कम् ॥ चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत् । पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते । द्रव्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः ॥ षट्पञ्चकाः षट् च पृथग्रसाः स्यु- श्चतुर्द्विकौ पञ्चदशप्रकारौ । भेदास्त्रिकाविंशतिरेकमेकं द्रव्यं षडास्वादमिति त्रिषष्टिः ॥ ते रसानुरसतो रसभेदा- स्तारतम्यपरिकल्पनया च । सम्भवन्ति गणनां समतीता । दोषभेषजवशादुपयोज्याः ॥” अथ षड्रसगुणाः । “मधुरः प्रीणनो बल्यो वृंहणोऽनिलपित्तहा । रसायणो गुरुः स्निग्धश्चक्षुष्यः शीतलश्च सः ॥ आयुःकृद्ब्रणहा रुच्यः कण्ठ्योदावर्त्तनाशकः । अम्लो रुचिकरो हृद्यः प्रीणनो वह्निवर्द्धनः ॥ वातहा रसनोद्बेगी स्निग्धोष्णो रक्तमांसदः । क्लेदनस्तर्पणः पक्ता लघुव्यापी कटुश्च यः ॥ लवणः क्लेदनस्तीक्ष्णः पाचनोद्दीपनो रसः । स्निग्धो रुचिकरः स्यन्दी दृष्टिशुक्लकरोऽगुरुः ॥ कटुर्ज्जिह्वास्यनासाक्षिरोचनो रुचिराङ्गकृत् । उष्णस्तीक्ष्णो लघुः कण्डूकृमिशुक्रकफापहः ॥ लघुः शोषी पक्तिकरः श्लेष्माकर्षणकः पटुः । तिक्तः पित्तकफछेदी विषकुष्ठज्वरापहः ॥ दीपनः पाचनो रूक्षः कण्डूकृमिहरो लघुः । कषायः शोषकः स्तम्भी व्रणग्लानार्त्तिनाशनः ॥ कफशोणितपित्तघ्नो रूक्षः शीतो लघुस्तथा । शीतलः पित्तहा बल्यः कफवातहरो गुरुः ॥ उष्णं पित्तकरो वीर्य्यो वातश्लेष्महरो लघुः । शीतं वीर्य्येण यद्द्रव्यं मधुरं रसपाकयोः ॥ तयोरम्लं कटुष्णञ्च यच्चोष्णं कटुकं तयोः । कटुतिक्तकषायाणां विपाकः प्रायशः कटुः ॥ अम्लोष्णं पच्यते स्वादु मधुरं लवणं तथा । कटुर्व्विपाके शुक्रघ्नो बद्धविड्वातलो लघुः ॥ स्वादुर्गुरुः सृष्टमलो विपाके कफशुक्रलः । पाकेऽम्लः सृष्टविम्मूत्रपित्तकृच्छुक्रकृल्लघुः ॥” गारुडे ॥ “कटुतिक्तकषायाश्च कोपयन्ति समीरणम् । कट्वम्ललवणाः पित्तं स्वाद्बम्ललवणाः कफम् ॥ अतएव विपर्य्यस्ताः समायैषां प्रयोजिताः । चक्षुष्यो मधुरो ज्ञेयो रसो धातुविवर्द्धनः ॥ स्थौल्यालस्यविषघ्नश्च कटूद्दीपन पाचनः ॥” इत्याह्निकतत्त्वम् ॥)
न्यायमते तु । “रसस्तु रसनाग्राह्यो मधुरादिरनेकधा । सहकारी रसज्ञाया नित्यत्वादि च पूर्ब्बवत् ॥” इति भाषापरिच्छेदः ॥ “रसस्त्विति । सहकारीति रासनज्ञाने रस- कारणमित्यर्थः । पूर्ब्बवदिति जलपरमाणो रसो नित्यः अन्यः सर्व्वोऽपि रसोऽनित्य इत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥ * ॥
शरीरस्थधातु- विशेषः । तत्पर्य्यायः । रसिका २ स्वेदमाता ३ वपुःस्रवः ४ चर्म्माम्भः ५ चर्म्मसारः ६ रक्त- सारः ७ अस्रमातृका ८ । इति राजनिर्घण्टः ॥ आहारसम्भवः ९ तेजःसम्भवः १० अग्नि- सम्भवः ११ षड्रसासवः १२ आत्रेयः १३ असृक्करः १४ धातुघनः १५ मूलमहापरः १६ इति हेमचन्द्रः ॥ तस्य निरुक्तिर्यथा, —
“यत् पार्थो रसधातुर्यस्ततोऽभवदयं रसः । सदैव सकलं देहं रसतीति रसः स्मृतः ॥” तस्य स्वरूपमाह । “सम्यक्पक्कस्य भुक्तस्य सारो निगदितो रसः । स तु द्रवः सितः शीतःखादुः स्निग्धश्चलो भवेत् ॥” सारः । यथा, गुडमधूकपुष्पवकुलत्वग्वदरी- मूलादिभवः सारो मदिरा । तस्य स्थानमाह । “सर्व्वदेहचरस्यापि रसस्य हृदयं स्थलम् । समानमरुता पूर्ब्बं यदयं हृदये धृतः ॥” तस्य कर्म्माण्याह । “आरुह्य धमनीर्गत्वा धातून् सर्व्वानयं रसः । पुष्णाति तदनु स्वीयैर्व्याप्नोति च तनुं गुणैः ॥” गुणैः शीतस्निग्धपोषकत्वैः । “मन्दवह्निविदग्धस्तु कटुर्व्वाम्लो भवेद्रसः । स कुर्य्याद्बहुलान् रोगान् विषकृत्यं करोत्यपि ॥” इति भावप्रकाशः ॥ (तथा च । “तत्र पाञ्चभौतिकस्य चतुर्व्विधस्य षड्रसस्य द्विविधवीर्य्यस्याष्टविधवीर्य्यस्य वानेक- गुणस्योपयुक्तस्याहारस्य सम्यक् परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स रस इत्युच्यते । तस्य च हृदयं स्थानं स हृदयाच्चतुर्व्विंशतिं धमनीरनुप्रविश्योर्द्ध्वगा दश दश चाधोगामिनी- श्चतस्रस्तिर्य्यग्गाः कृत्स्नं शरीरमहरहस्तर्पयति वर्द्धयति धारयति यापयति जीवयति चादृष्ट- हेतुकेन कर्म्मणा । तस्य शरीरमनुधावतोऽनु- मानाद् गतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः । तस्मिन् सर्व्वशरीरावयवदोषधातुमलाशयानु- सारिणि रसे जिज्ञासा किमयं सौम्यस्तैजस इति । अत्रोच्यते स खलु द्रवानुसारी स्नेहन- जीवनतर्पणधारनादिभिर्विशेषैः सौम्य इत्यव- गम्यते ।” इति च सुश्रुते सूत्रस्थाने चतुर्द्दशे- ऽध्याये ॥ * ॥
)
शृङ्गारादिदशविधस्थायी भावः । शृङ्गारादयो- ऽष्टौ रसशब्दवाच्याः । रस्यन्ते आस्वाद्यन्ते रसाः रसत् क त्वास्वादे घञ् । तथा हि । विभावैरनुभावैश्च व्यक्तो वा व्यभिचारिभिः । आस्वाद्यत्वात् प्रधानत्वात् स्थायी भावो रसो भेवेदिति ॥ रत्युत्साहशोक-विस्मयहासभयजुगुप्साक्रोधाः क्रमादेते स्युः स्थायिनः । यदुक्तम् । “रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभाभाः क्रमादमी ॥ समये यः समुद्भूतः स्वान्ते यश्चावतिष्ठते । भावः स्थायी स विज्ञेयो व्यभिचारी ततोऽन्यथा । निर्व्वेदग्लानिशङ्काद्या व्यभिचारिण ईरिताः ॥” स्थायिनः कारणं विभावः स चावलम्बनोद्दीप- नत्वेन द्विविधः । यथा रतेरवलम्बनकारणं पुंसो युवती युवत्याश्च पुमान् । उद्दीपनकारणं स्रक्- चन्दनादि । एवं सर्व्वत्रोन्नेयम् । रतिप्रमोदा- त्मको भावः स च युवभिरुत्पादितः शृङ्गारः । यदाह । “पुंसःस्त्रियां स्त्रियाःपुंसि संयोगं प्रति या स्पृहा । स शृङ्गार इति ख्यातो रतिक्रीडादिकारणम् ॥ दानधर्म्मयुद्धेषु जीवानपेक्षोत्साहकारी रसो वीरः । शोकस्थायिभावः करुणः । असम्भावित- मर्त्यान्तरीक्षगमनादिजोऽद्भुतः । कौतुकोद्भवो हासः । क्रुध्यद्राक्षसादिभयजन्यो भयानकः । घृणाकरपूयरसादिजो वीभत्सः । सर्व्वाभि- भाविता रौद्रः । यथा, रावणचरितादि । शान्तोऽपि रसोऽस्ति । “शृङ्गारवीरवीभत्सरौद्रहास्यभयानकाः । करुणाद्भुतशान्ताश्च नव नाट्या रसाः स्मृताः ॥” इति रत्नकोषः ॥ एवं वत्सलोऽपि रसोऽस्ति । “शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । वीभत्सरौद्रौ वात्सल्यं शान्तश्चेति रसा दश ॥” इति नामनिधानम् ॥ वत्सलः पुत्त्रादिस्नेहात् स्वारतिभेद एव । शान्तस्त्वलौकिकत्वान्नोक्तः । इति मुकुटः ॥ चशब्दात् शान्तवत्सलावपि संगृहीताविति केचित् । इत्यमरटीकायां भरतः ॥ * ॥
अपि च । तत्र शृङ्गारादिसर्व्वरसकदम्बमूर्त्तिर्भगवान् तत्तदभिप्रायानुसारेण बभौ न साकल्येन सर्व्वे- षामित्याह । मल्लानामिति । मल्लादीनां दशानां द्रष्टॄणां अशन्यादिरूपेण दशधा विदितः सन् साग्रजो रङ्गं गतः इत्यन्वयः । मल्लादिषु अभिव्यक्ता रसाः क्रमेण श्लोकेन निवघ्यन्ते । “रौद्रोऽद्भुतश्च शृङ्गारो हास्यवीरौ दया तथा । भयानकश्च वीभत्सः शान्तः सप्रेमभक्तिकः ॥” अविदुषां विराट् विकलः अपर्य्याप्तो जड इति यावत् । अनेन वीभत्स उक्तः । विकलत्वञ्च क्व वज्रसारसर्व्वाङ्गावित्यादिना वक्ष्यति । इति श्रीमद्भागवते १० स्कन्धे ४३ अध्याये १५ श्लोक- टीकायां श्रीधरस्वामी ॥ * ॥
(तथा च । “रसे सारश्चमत्कारः सर्व्वत्राप्यनुभूयते ॥ तच्चमत्कारसारत्वे सर्व्वत्राप्यद्भुतो रसः । तस्मादद्भतमेवाह कृती नारायणो रसम् ॥” इति साहित्यदर्पणे धर्म्मदत्तः ॥ रसः कथ्यते । “विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥” अस्य स्वरूपकथनगर्भ आस्वादप्रकारः कथ्यते । “सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥ लोकोत्तरचमत्कारप्राणः कैश्चित् प्रमातृभिः । स्वाकारवदभिन्नत्वे नायमास्वाद्यते रसः । रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते ॥” इति साहित्यदर्पणे विश्वनाथः ॥ ३ ॥ “शृङ्गारहास्यकरुणरौद्रवीरभयानकाः । वीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाठ्ये रसाः स्मृताः ॥” शृङ्गारस्य यथा, —
“शृङ्गं हि मन्मथोद्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥ परोढां वर्ज्जयित्वा तु वेश्याञ्चाननुरागिणीम् । आलम्बनं नायिकाः स्युर्द्दक्षिणाद्याश्च नायकाः ॥ चन्द्रचन्दनरोलम्बरुताद्युद्दीपनं मतम् । भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्त्तितः ॥ त्वक्त्वौग्र्यमरणालस्यजुगुप्सा व्यभिचारिणः । स्थायी भावो रतिः श्यामवर्णोऽयं विष्णुदैवतः ॥” यथा, —
“शूण्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चि- च्छनैः निद्राव्याजमुपागतस्य सुचिरं निर्व्वर्ण्य पत्यु- र्म्मुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्ड- स्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥” हास्यस्य । “विकृताकारवाग्वेशचेष्टादेः कुहकाद्भवेत् । हासो हास्यस्थायिभावः श्वेतः प्रमथदैवतः ॥ विकृताकारवाक्चेष्टं यदालोक्य हसेन्नरः । तदत्रालम्बनं प्राहुस्तच्चेष्टोद्दीपनं मतम् ॥ अनुभावोऽक्षिसङ्कोचवचनस्मेरतादयः । निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः ॥ ज्येष्ठानां स्मितहसिते मध्यानां विहसिता- वहसिते च । नीचानामपहसितं तथातिहसितञ्च षड्भेदाः ॥ ईषद्विकासिनयनं स्मितं स्यात् स्पन्दिताधरम् । किञ्चिल्लख्यद्विजं तत्र हसितं कथितं बुधैः ॥ मधुरस्वरं विहसितं सांसशिरःकम्पनमव- हसितम् । अपहसितं सास्राक्षं विक्षिप्ताङ्गं भवत्यति- हसितम् ॥” यथा, —
“आकुञ्च्य पाणिमशुचिं मम मूर्द्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे । तारस्वरं प्रथितथूत्कमदात् प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्म्मा ॥” करुणस्य । “इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् । धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥ शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् । तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः । अनुभावा दैवनिन्दा भूपातक्रन्दनादयः ॥ वैवर्णोच्छासनिश्वासस्तम्भप्रलपनानि च । निर्व्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः ॥ विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥” यथा, —
“विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः । अनयोर्घटनाविधेः स्फुटं ननु खड्गेन शिरीषकर्त्तनम् ॥” रौद्रस्य । “रौद्रः क्रोधः स्थायिभावो रक्तो रुद्राधिदैवतः । आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ॥ मुष्टिप्रहारपतनविकृतच्छेदावदारणैश्चैव । संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥ भ्रूविभङ्गोष्ठनिर्द्दिंशबाहुस्फोटनतर्ज्जनम् । आत्मावदानकथनमायुधोत्क्षेपणानि च ॥ अनुभावास्तथाक्षेपक्रूरसन्दर्शनादयः । उग्रतावेगरोमाञ्च स्वेदवेपथवो मदः ॥ मोहामर्षादयश्चात्र भावाः स्युर्व्व्यभिचारिणः ॥” यथा, —
“कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं मनुजपशुभिर्निर्म्मर्य्यादैर्भवद्भिरुदायुधैः । नरकरिपुना सार्द्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां वलिम् ॥” वीरस्य । “उत्तमप्रकृतिर्व्वीर उत्साहस्तायिभावकः महेन्द्रदैवतो हेमवर्णोऽयं समुदाहृतः ॥ आलम्बनविभावाश्च विजेतव्यादयो मताः । विजेतव्यादिचेष्ठाद्यास्तत्रोद्दीपनरूपिणः ॥ अनुभावास्तु तत्र स्युः सहायान्वेषणादयः । सञ्चारिणस्तु घृतिमतिगर्व्वस्मृतितर्करोमाञ्चाः ॥ स च दानधर्म्मयुद्धैर्दयया च समन्वितश्चतुर्द्धा स्यात् ॥” यथा, —
“क्षुद्राः सन्त्रासमेते विजहित हरयः ! क्षुण्ण- शक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्प- तन्तः । सौमित्रे ! तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः किञ्चिद् भ्रूभङ्गलीलानियमितजलधिं राम- मन्वेषयामि ॥” भयानकस्य । “भयानको भयस्थायिभावः कालाधिदैवतः । स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्वविशारदैः ॥ यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा वोरतरा तस्य तदत्रोद्दीपनं पुनः ॥ अनुभावोऽत्र वैवर्ण्यगद्गदस्वरभाषणम् । पुलकस्वेदरोमाञ्चकम्पदिक्प्रेक्षणादयः ॥ जुगुप्सावेगसम्मोहसन्त्रासग्लानिदीनताः । शङ्कापस्मारसम्भ्रान्तिमृत्व्याद्या व्यभि- चारिणः ॥” यथा, —
“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्ब्ब- कायम् । शष्पैरर्द्धावलीढैः श्रमविवृतमुखभ्रंसिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्व्यां प्रयाति ॥” वीभत्सस्य । “जुगुप्सा स्थायिभावस्तु वीभत्सः कथ्यते रसः । नीलवर्णो महाकालदेवतोऽयमुदाहृतः ॥ दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् । तत्रैव कृमिपातादिरुद्दीपनमुदाहृतम् ॥ निष्ठीवनास्यवलननेत्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तत्र स्युर्व्व्यभिचारिणः ॥ मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः ॥” यथा, —
“उत्कृत्योत्कृत्यकृत्तिं प्रथममथ पृथूत्सेध- भूयांसि मांसा- न्यंशस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । अन्तःपर्य्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का- दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्य- ग्रमत्ति ॥” अद्भुतस्य । “अद्भुतो विस्मयस्थायिभावो गन्धर्व्वदैवतः । पीतवर्णो वस्तु लोकातिगमालम्बनं मतम् ॥ गुणानां तस्य महिमा भवेदुद्दीपनं पुनः । स्तम्भः स्वेदोऽथ रोमाञ्चगद्गदस्वरसंभ्रमाः ॥ तथा नेत्रविकासाद्या अनुभावाः प्रकीर्त्तिताः । वितर्कावेगसम्भ्रान्तिहर्षाद्या व्यभिचारिणः ॥” यथा, “चित्रं महानेष वतावतारः क्व कातिरेषाभिनवैव भङ्गिः । लोकोत्तरं धैर्य्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥” शान्तस्य । “निर्व्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः ॥” तथा च । “शान्तः शमस्थायिमाव उत्तमप्रकृतिर्म्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः ॥ अनित्यत्वादिनाशेषवस्तुनिःसारता तु या । परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ॥ पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः । महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः ॥ रोमाञ्चाद्याश्चानुभावास्तथास्युर्व्यभिचारिणः । निर्व्वेदहर्षस्मरणमतिभूतदयादयः ॥” यथा, —
“अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्ट्रे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित् पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः ॥” इति काव्यप्रकाशसाहित्यदर्पणे ॥ विशेषविस्तृ- तिस्तु साहित्यदर्पणे तृतीयपरिच्छेदे द्रष्टव्या ॥ तन्त्रशास्त्रेऽपि साधकानामुपासनासौकर्य्यार्थं रसास्वादः रसप्रकारश्च कथ्यते । यथा, — भैरव उवाच । “क्रियाकाण्डप्रकथने तन्त्रं बहुतरं भवेत् । किञ्चिल्लक्षणमेतेषां संक्षेपात् कथयामि ते ॥ काव्यशास्त्रेनव रसा योगे चाष्टौ रसाः स्मृताः ॥ अष्टादशप्रकारा हि विद्यायाः परिकीर्त्तिताः । भक्तियोगे नव रसा ऋतवो विषये स्मृताः ॥ रञ्चमाद्या रसा देवि ! पञ्चपञ्चाशतः स्मृताः । भेदं रसानां वक्ष्यामि शृणुष्वावहिता प्रिये ॥ शृङ्गारवीरकरुणहास्योद्भुतभयानकाः । वीभत्सः शान्तको रौद्रो नवधा काव्यशास्त्रके ॥ यमश्च नियमश्चैव आसनं प्राणसंयमः । प्रत्याहारो धारणा च ध्यानं समाधिरष्टधा ॥ योगशास्त्रे महादेवि कथिता विस्तरात् प्रिये ॥ छन्दः पादौ च वेदस्य मुखं व्याकरणं स्मृतम् । शिक्षा घ्राणं महेशानि ! हस्तौ कल्पोऽथ कथ्यते ॥ ज्वोतिषं देवि तन्नेत्रं निरुक्तं श्रोत्रमुच्यते । अङ्गानि वेदाश्चत्वारो मीमांसान्यायविस्तरैः ॥ धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्द्दश । आयुर्व्वेदो धनुर्व्वेदो गान्धर्व्वाश्चेति ते त्रयः ॥ अर्थशास्त्रसमायुक्ता विद्याष्टादशधा रसाः । मननं कीर्त्तनं ध्यानं स्मरणं पादसेवनम् ॥ अर्च्चनं वन्दनं दास्यं सख्यमात्मसमर्पणम् । इत्थं देवि नव रसा भक्तियोगे प्रकीर्त्तिताः ॥ स्रग्गन्धवनिताशय्यावस्त्रालङ्करणानि च । कथिताः परमेशानि विषये ऋतवो रसाः ॥ खाद्याः पञ्चरसा गौडी माध्वीक्षुफलशस्यकाः । एतेषु रसभावज्ञा ये ते वै रसिकाः स्मृताः ॥ कृत्यविधिर्ज्जपविधिर्द्रव्यशोधनिको विधिः । बाह्यमानसिकी पूजा विधिश्च परमेश्वरि ! ॥ पुरश्चर्य्याविधिर्द्देवि ! कर्म्मकाण्डानि पञ्चधा । त्रिधा कृत्य विधिर्द्देवि ! प्रातः सायं दिनन्तथा ॥ अनुभूय रसान् सर्व्वान् क्रियाकाण्ड विधाय च । साधकः स्थिरचित्तेन कुर्य्यात् पूर्णाभिषेचनम् ॥” इति वामकेश्वरतन्त्रे त्रयःपञ्चाशत् पटलः ॥ देव्युवाच । “मन्त्रप्रकथनं नाथ ! देव प्रकथनं कथम् । तत्तद्रसानां वचनैश्चित्तं मोहयसीव मे ॥ साम्प्रतं संशयच्छेदकारणं ब्रूहि मे प्रभो ! ॥ आश्चर्य्याख्यानमेवं हि श्रवणात् कौतुकं महत् ॥ भैरव उवाच । तन्त्रोक्तं वेदवाक्यञ्च सर्व्वज्ञानस्य कारणम् । भेदं रसानां वक्ष्यामि शृणुष्वावहिता सती ॥ शृङ्गारो वीरतो ज्ञेयस्तस्मिंस्ते करुणादयः । शृङ्गारादिघृणादिश्च अपि शृङ्गारतो भवेत् ॥ शृङ्गारस्तु यदा देवी परमार्थकसूचकः । तदैव परमा शान्ती रुद्रत्वं संप्रपद्यते ॥ तेषां प्रकरणार्थन्तु शृणु प्राणाधिके ! मयि । पादं विना शरीरस्य न गतिर्व्विद्यते प्रिये ! ॥ छन्दसा वेदमार्गे तु प्रविशेन्न कदाचन ॥ अलङ्कारं विनाच्छन्दो न शोभेत प्रियंवदे ॥ चक्षुः परोक्षभेदः स्यात् ज्योतिःशास्त्रं तथैवच । चन्द्रसूर्य्यस्य ग्रहणात् ज्योतिः प्रत्यक्षतामियात् ॥ वेदशाखा निरुक्तं स्यात् शाखाभिर्ब्रह्म जायते । गानकार्य्ये श्रूयमाणे भक्तिर्भवति ब्रह्मणि ॥ तदैव गानकृत्यञ्च मुखनासिकयोर्भवेत् । गानं विना न नृत्यं स्यात् नृत्यं गानेन जायते ॥ शिक्षाशास्त्रं नाटकादि शब्दव्याकरणं स्मृतम् । अविनाभावसम्बन्धात्द्बयोरेव शुचिस्मिते ॥ ! वेदाः षडङ्गसहिताः ब्रह्मव्याख्यानतत्पराः । न्यायेन सार्द्धं मीमांसा ब्रह्म निर्णीयते ध्रुवम् ॥ ब्रह्मज्ञाने तु जीवस्य परमात्मविचारणम् । धर्म्मशास्त्रानुसारेण व्यवस्थादिर्निरूपितः ॥ पुराणाख्यानि तेनैव जायते सततं प्रिये ! । ब्रह्मानन्दपरो जीव आत्मसंरक्षणोत्सुकः ॥ आयुर्व्वेदं धनुर्व्वेदं गान्धर्व्वञ्च समभ्यसेत् । अनुसन्धानतो देवि पूर्णज्ञानी च साधकः ॥ मधुनेक्षुरसेनैव दुग्धादिफलशस्यकैः । गन्धमाल्यादिना देवि ! वस्त्रालङ्करणादिना ॥ शय्यायां वनितारूपं पूजयेज्जगदम्बिकाम् । वनितापूजने देवि ! शृङ्गारो रससाधनम् ॥ पूजनं कर्म्मकाण्डञ्च पञ्चधा तत्प्रकीर्त्तितम् । तत्सर्व्वं साधयेद्वीरो देवी सम्प्राप्तिहेतवे ॥ पूजने नवधा भक्ती रसोल्लासश्च जायते । तदा योगं समभ्यस्य समाधिस्थो भवेद्यतिः ॥ अतएव महेशानि ! पुरैव कथितं मया । अनुभूय रसान् सर्व्वान् पञ्चपञ्चाशतः प्रिये ! ॥ विषये कर्म्मकाण्डेषु निष्कामी भवति प्रिये ! । निष्कामे फलमाश्चर्य्यं तेन तृप्यति देवता ॥ देही देहं समाश्रित्य न च कर्म्म परित्यजेत् । दिव्यां क्रियां समाप्यैवं देवीयात्रादिकर्म्मणा ॥ पूर्णज्ञानरसानन्दात् जीवन्मुक्तो भवेद्ध्रुवम् ॥” इति वामकेश्वरतन्त्रे चतुःपञ्चाशत् पटलः ॥ रसस्य परब्रह्मस्वरूपत्वमप्युक्तम् । यथा, —
“रसो वै सः ।” इति श्रुतिः ॥ सन्ध्यामन्त्रेऽपि । “आपो ज्योतो रसोऽमृतं ब्रह्म ।” अत्र ब


शब्दकल्पद्रुमः

रस || शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।)
रसति । इति दुर्गादासः ॥



Correction: