वाचस्पत्यम्
रसना || स्त्री रस्यतेऽनया रस—करणे ल्युट् अंजा० टाप् । १ जिह्वायाम् अमरः । २ रास्नायां मेदि० । ३ काञ्च्यां हेमच० । ३ रज्जौ च ।
शब्दकल्पद्रुमः
रसना || स्त्री (रस + युच् । टाप् च ।)
जिह्वा । इत्यमरः ॥ (यथा, भागवते । ९ । ४ । १९ । “घ्राणञ्च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते ॥”)
तस्याः शुभलक्षणं यथा, —
“तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समा शुभा । श्लक्ष्णा दीर्घा च विज्ञेया तालुः श्वेतो धनक्षये ॥” इति गारुडे ६६ अध्यायः ॥ न्यायमते रसनेन्द्रियग्राह्यो रसो रसत्वादि- सहितः । यथा, —
“रसस्तु रसनाग्राह्यो मधुरादिरनेकधा । सहकारी रसज्ञाया नित्यतादि च पूर्ब्बवत् ॥ घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः । तथा रसो रसज्ञायास्तथा शब्दोऽपि च श्रुतेः ॥” इति भाषापरिच्छेदः ॥ “तथारस इति रसत्वादिसहित इत्यर्थः ।” इति सिद्धान्तमुक्तावली ॥ * ॥
रास्ना । इति मेदिनी ॥ (अस्याः पर्य्यायो यथा, —
“रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुगन्धा श्रेयसी तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गन्धभद्रा । इति शब्दचन्द्रिका ॥ काञ्ची । इति हेमचन्द्रः ॥ (यथा, रघौ । ७ । १० । “कस्याश्चिदासीद्रसना तदानीं अङ्गुष्ठमूलार्पितसूत्रशेषा ॥”)
रज्जुः । इति संक्षिप्तसारोणादिवृत्तिः ॥