शब्दकल्पद्रुमः
रसमारणं || क्ली (रसस्य पारदस्य मारणम् ।)
पारदस्य मारणम् । यथा, —
“धूमसारं रसं तोरिं गन्धकं नवसादरम् । यामैकं मर्छयेदम्लैर्भागं कृत्वा समं समम् ॥ काचकूप्यां विनिःक्षिप्य ताञ्च मृद्वस्त्रमुद्रया । विलिप्य परितो वक्त्रे मुद्रां दत्त्वा विशोषयेत् ॥ अधःसच्छिद्रपिठरीमध्ये कूपीं निवेशयेत् । पिठरीवालुकापूरैर्भृत्वा वा कूपिकागलम् ॥ निवेश्य चुल्ल्यां तदधो वह्निं कुर्य्याच्छनैः शनैः । तस्मादप्यधिकं किञ्चित् पावकं ज्वालयेत् क्रमात् ॥ एवं द्वादशभिर्यामैर्म्रियते रस उत्तमः । स्फोटयेत् स्वाङ्गशीतं तमूर्द्ध्वगं गन्धकं त्यजेत् ॥ अधस्थञ्च मृतं सूतं गृह्णीयात् तन्तु मात्रया । यथोचितानुपानेन सर्व्वकर्म्मसु योजयेत् ॥” इति भावप्रकाशः ॥