संस्कृत-शब्दकोशः

रसमारणं रसराज

रसमूर्च्छनं

शब्दकल्पद्रुमः

रसमूर्च्छनं || क्ली (रसस्य पारदस्य मूर्च्छनम् ।)
पारदस्य मूर्च्छाकरणम् । यथा, —
“त्र्युषणं त्रिफलाबन्ध्याकन्दैः क्षुद्रद्बयान्वितैः । चित्रकोर्णानिशाक्षारकन्याककनकद्रवैः ॥ सूतं कृतेन यूषेण वारान् सप्ताभिमूर्च्छयेत् । इत्थं संमूर्च्छितः सूतस्त्यजेत् सप्तापि कञ्चुकान् ॥” इति भावप्रकाशः ॥ (तथास्य विवृतिः । “गन्धकेन रसं प्राज्ञः सुदृढं मर्द्दयेद्भिषक् । कज्जलाभो यदा सूतो विहाय घनचापलम् ॥ दृश्यतेऽसौ तदा ज्ञेयो मूर्च्छितो रसकोविदैः । असौ रोगचयं हन्यादनुपानस्य योगतः ॥” इति मूर्च्छनम् ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)



Correction: