वाचस्पत्यम्
रसराज || पु० रसेषु रसो वा राजेव श्रेष्ठत्वात् रसः द्रव इव राजते वा । १ पारदे रसनाथादयोऽप्यत्र । २ रसाञ्जने च राजनि० ।
शब्दकल्पद्रुमः
रसराजः || पुं, (रसानां धातूनां राजा इति । “राजाहःसखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।)
पारदः । रसाञ्जनम् । इति राजनिर्घण्टः ॥