शब्दकल्पद्रुमः
रसलेहः || पुं, (रसान् अपरान् धातून् लेढीति । लिह + पचाद्यच् ।) पारदः । इति राज- निर्घण्टः ॥