वाचस्पत्यम्
रसवती || स्त्री रस आस्वाद्यद्रव्यमन्नादि अस्त्यस्याम् मतुप मस्य वः ङीप् । पाकस्थाने अमरः ।
शब्दकल्पद्रुमः
रसवती || स्त्री (रसो विविधखाद्यरसो विद्यतेऽस्या- मिति । रस + “रसादिभ्यश्च ।” ५ । २ । ९५ । इति मतुप् । मस्य वत्वम् ।)
महानसम् । इत्यमरः ॥ (यथा, सांख्यतत्त्वकौमुद्याम् । ५ । “यथा धूमाद्वह्नित्वसामान्यविशेषः पर्व्वते अनु- मीयते तस्य च वह्नित्वसामान्यविशेषस्य स्व- लक्षणो वह्निविशेषो दृष्टो रसवत्याम् ॥ * ॥
”)
रसविशिष्टे, त्रि ॥ (यथा, आर्य्यासप्तशती । ४९८ । “रोषोऽपि रसवतीनां न कर्क्कशो वा चिरानु- बन्धी वा ॥”)