वाचस्पत्यम्
रसाल || न० रसमालाति आ + ला—क ६ त० । १ सिह्लके २ गन्धरसे मेदि० । ३ शिखरिण्याम (पेयभेदे) तत्पाक- विधिः कृतान्नशब्दे २१८४ पृ० भावप्र० उक्तो दृश्यः । ४ रसनायां ५ दूर्वायां ६ विदार्य्यां ७ द्राक्षायाञ्च स्त्री मेदि० । ८ आम्रे “रसालः सालः समदृश्यताऽमुना” नैषधम् । ९ इक्षौ अमरः । १० पनसे शब्दर० । ११ गोधूमे १२ पुण्ड्रकेक्षौ च पु० राजनि० ।
शब्दकल्पद्रुमः
रसालं || क्ली (रसं आलातीति । आ + ला + कः ।)
सिह्लकम् । बीलम् । इति मेदिनी ॥
शब्दकल्पद्रुमः
रसालः || पुं, (रसं आलाति गृह्णाति । आ + ला + कः ।)
इक्षुः । आम्रः । इत्यमरः ॥ (यथा, साहित्यदर्पणे १० परिच्छेदे अतिशयोक्त्यलङ्कारे । “प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् । पाश्चादुद्भिन्नवकुलरसालमुकुलश्रियः ॥”)
पनसः । इति शब्दरत्नावली ॥ कुन्दरतृणम् ॥ गोधूमः । पुण्ड्रकनामेक्षुः । इति राजनिर्घण्टः ।