संस्कृत-शब्दकोशः

रसाह्व रसिका

रसिक

वाचस्पत्यम्

रसिक ||‍ पुंस्त्री० रसं वेत्ति अनुभवति ठन् । १ सारसपक्षिणि राजनि० २ अश्वे ३ गजे सारस्वतः । स्त्रियां जातित्वा ङीष् । ४ रसज्ञे त्रि० । रसोऽस्त्यस्य ठन् । ५ रसवति च त्रि मेदि० । ६ रसालायाम् ७ इक्षुरसे च स्त्री मेदि० ८ काञ्च्य ९ रसनायां स्त्री विश्वः ।


शब्दकल्पद्रुमः

रसिकः || पुं, (रसोऽस्त्यस्यात्रेति वा । रस् + ठन् ।)
सारसपक्षी । इति राजनिर्घण्टः ॥ तुरङ्गः । हस्ती । इति सारस्वतः ॥ सरसे, त्रि । इति मेदिनी ॥ (यथा, भागवते । १ । १ । ३ । “पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ॥”)



Correction: