वाचस्पत्यम्
राख || शोषणे भूषणे निवारणे च सक० सामर्थ्ये अक० भ्वा० पर० सेट् । राखति अराखीत् । ऋदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
राख || ऋ शोषालमर्थयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सक० च-सेट् ।)
शोषः स्नेहरहितीभावः । अलमर्थो भूषणं सामर्थ्यं निवारणञ्च । ऋ, अरराखत् । इति दुर्गा- दासः ॥