संस्कृत-शब्दकोशः

राख रागचूर्ण

राग

वाचस्पत्यम्

राग ||‍ पु० रन्ज—भावे घञ् नि० नलोपकुत्वे । १ रञ्जने २ शुक्लादिवर्णे ३ प्रीतौ ४ अनुरामे ५ नृपे ६ मालवादिना- मभिः प्रसिद्धे निषादादिस्वरयोनिके खरभेदे मेदि० ७ चन्द्रे ८ सूर्य्ये च शब्दर० । करणे घञ् । ९ लोहितवर्णे १० तद्विशिष्टलाक्षादौ च “तेन रक्तं रागात्” पा० अनुरागलक्षणम् उज्ज्वलमणिनोक्तं यथा “सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात् स राग इति कम्यते” । स्वरभेदनिरुक्तिर्यथा “यैस्तु चेतांसि रज्यन्ते जगत्त्रितयवर्त्तिनाम् । ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः” तेषां भेदाः संगीतदा० मतसभेदे नाना तत्र प्रसिद्धा षड भेदा यथा ||‍“आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरोगश्च ततः पश्चात् वसन्तस्तदन्तरम् । हिन्दोलश्चाथ कर्णाट एते रागाः षडे च तु” सङ्गीतदा० । भरतमते तु “भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च रागाः षडिति कीर्त्तिताः” ।


शब्दकल्पद्रुमः

रागः || पुं, (रञ्जनमिति रज्यतेऽनेनेति वा । रञ्ज + भावे करणे वा घञ् । “घञि च भाव- करणयोः ।” ६ । ४ । २७ । इति नलोपः ।)
मात्स्यर्य्यम् । लोहितादिः । (यथा, कुमारे । ३ । ३० । “रागेण बालारुणकोमलेन चूतप्रबालोष्ठमलञ्चकार ॥”)
क्लेशादिः । अनुरागः । (यथा, आर्य्यासप्त- शत्याम् । २७० । “तानवमेत्य छिन्नः परोपहितरागमदन- सङ्घटितः । कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥”)
गान्धारादिः । नृपः । इति मेदिनी ॥ चन्द्रः ॥ सूर्य्यः । इति शब्दरत्नावली ॥ लाक्षादिः । (यथा, कुमारे । ४ । १९ । “तमिमं कुरु दक्षिणेतरं चरणं निर्म्मितरागमेहि मे ॥”)
रक्तिमत्विट् । रञ्जनम् । इति नानार्थरत्न- माला ॥ प्रीतिः । यथा, —
“वीतरागभयक्रोधस्थितधीर्म्मुनिरुच्यते ॥” इति भगवद्गीताश्लोकटीकायां श्रीधरस्वामी ॥ तस्य लक्षणं यथा, —
“सुखमप्यधिकं चित्ते सुखत्वेनैव रज्यते । यतस्तु प्रणयोत्कर्षात् स राग इति कीर्त्त्यते ॥” इत्युज्ज्वलनीलमणिः ॥ * ॥
(अभिमतविषयाभिलाषः । स तु पञ्चक्लशान्त- र्गतः । यथा, —
“अविद्यास्मितारागद्वेशाभिनिवेशाः पञ्च- क्लेशाः । रागोऽभिमतविषयाभिलाषः ।” इति शिशुपालवधटीकायां मल्लिनाथः । ४ । ५६ ॥ “सुखानुशयी रागः ।” इति पतञ्जलिः । गान- शास्त्रीयरागा यथा । भरतमते हनूमन्मते च रागः षड्विधः । तेषां नामानि यथा । भैरवः १ कौशिकः २ हिन्दोलः ३ दीपकः ४ श्रीरागः ५ मेघः ६ । हनूमद्भरतयोर्म्मते प्रत्येक- मेषां पञ्च रागिण्यः । सोमेश्वरकल्लिनाथयोर्म्मते प्रत्येकमेतेषां षट् रागिण्यः । एतेषां प्रत्येक- मष्टौ पुत्त्राः एकैकपुत्त्रभार्य्या च । कल्लिनाथ- सोमेश्वरमते षड्रागा यथा । श्रीरागः १ वसन्तः २ पञ्चमः ३ भैरवः ४ मेघः ५ नट- नारायणः ६ । इति नानासंगीतशास्त्रम् ॥ * ॥
अथ रागस्य व्युत्पत्तिसंख्यास्थानानि । “यैस्तु चेतांसि रज्यन्ते जगत्त्रितयवर्त्तिनाम् । ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः ॥ गोपीभिर्गीतमारब्धमेकैकं कृष्णसन्निधौ । तेन जातानि रागाणां सहस्राणि तु षोडश ॥ रागेषु तेषु षट्त्रिंशद्रागा जगति विश्रुताः । कालक्रमेण तत्रापि ह्नास एव तु दृश्यते । केचिद्वदन्ति ते रागाः सर्व्वे सन्तीति निश्चितम् ॥ मेरोरुत्तरतः पूर्ब्बे पश्चिमे दक्षिणे तथा । समुद्रकण्ठे ये देशास्तत्रामीषां प्रचारणा ॥” तथा च । अङ्गवङ्गकलिङ्गतेलङ्गभूलिङ्गहावङ्ग- सुरङ्गयूपलङ्गखेलाङ्गसौवीरकीरकाश्मीरनाभी- रनाहीरसिन्धुजालन्धरमगमगधनिषधमलयही- हयगजाह्वयमालवजालवमरुमूरुचोलोत्कलकु- न्तलसिंहलहरिकेलकेरल-कोशलमल्लिवालमल्ल- भल्लसौविदल्लवातकिञ्जातगुजूरातगुञ्जरकालञ्जर- गौडद्रविडौड्रान्तर्व्वेदिकाञ्चीपाञ्चालसौराष्ट्रश- वरलौहावरखशकीकशवरूपकामरूपहरिगर्भ- विदर्भदुर्मटवाटकीकटदेवेङ्गनटङ्गननाटभोटक- वाटकरहाटकर्णाटकुन्तिकावन्तिककनकाब्ज- कान्यकुब्जभोजकाम्बोजतोजतुखारविहारवली- हारवाजगेहविदेहवाह्लीकचञ्चरीकत्रिगर्त्तान- र्त्तादिदेशेषु रागाः प्रचरन्तीति । “यस्य श्रवणमात्रेण रञ्जन्ते सकलाः प्रजाः । सर्व्वाघरञ्जनाद्धेतोस्तेन राग इति स्मृतः ॥” * ॥
अथ रागाः । “आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागश्च ततः पश्चाद्वसन्तस्तदनन्तरम् ॥ हिन्दोलश्चाथ कर्णाट एते रागाः षडेव तु । ६ । षट्त्रिंशद्रागिणी तत्र क्रमशः कथिता मया ॥ धानसी मालसी चैव रामकिरी च सिन्धुडा । आशावरी भैरवी च मालवस्य प्रिया इमाः ॥ ६ वेलावली च पुरवी कानडा माधवी तथा । कोडा केदारिका चापि मल्लारदयिता इमाः ॥ ६ गान्धारी शुभगा चैव गौरी कौमारिका तथा । वेलोयारी च वैरागी श्रीरागस्य प्रिया इमाः ॥ ६ तुडी च पञ्चमी चैव ललिता पठमञ्जरी । गुज्जरी च विभाषा च वसन्तस्य प्रिया इमाः ॥ ६ मायूरी दीपिका चैव देशकारी च पाहिडा । वराडी भोरहाटी च हिन्दोलस्य प्रिया इमाः ॥ ६ ॥ नाटिका चाथ भूपाली रामकेली गडा तथा । कामोदा चापि कल्याणी कर्णाटस्य प्रिया इमाः ॥ ६ ॥ ३६ ॥ * ॥
अथ कालनियमः । “विभाषा ललिता चैव कामोदा पठमञ्जरी । रामकीरी रामकेली वेलोयारी च गुज्जरी ॥ देशकारी च शुभगा पञ्चमी च गडा तुडी । भैरवी चाथ कौमारी रागिण्यो दश पञ्च च । एताः पूर्व्वाह्णकाले तु गीयन्ते गायनोत्तमैः ॥ वराडी मायूरो कोडा वैरागी चाथ धानसी । वेलावली मोरहाटी सप्तैता रागयोषितः । गेया मध्याह्नकाले तु यथा भारतभाषितम् ॥ गान्धारी दीपिका चैव कल्याणी पुरवी तथा । कानडा शारवी चैव गौरी केदारपाहिडा ॥ मायूरी मालसी नाटी भूपाली सिन्धुडा तथा । सायाह्ने ताश्च रागिण्यः प्रगायन्ति चतुर्द्दश ॥ पुरुषा वस्तुभूषाढ्या रागास्ते मालवादयः । प्रदोषे चापराह्णे च रजन्यां गानगोचराः ॥ दशदण्डात् परं रात्रौ सर्व्वेषां गानमीरितम् । मेघमल्लाररागस्य गानं वर्षासु सर्व्वदा ॥ श्रीपञ्चम्यां समारभ्य यावत् जन्मोत्सवं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः ॥ शक्रोत्थानं समारभ्य यावद्दुर्गामहोत्सवम् । गीयते तद्बुधैर्नित्यं मालसी सा मनोहरा ॥ सर्व्वेषामिह रागाणां रागिणीनाञ्च सर्व्वशः । रङ्गभूमौ नृपाज्ञायां कालदोषो न विद्यते ॥ रागञ्चालापयेदादौ तत्पत्न्यस्तदनन्तरम् । नान्यपत्नी प्रगातव्या नृपाज्ञायां न दूषणम् ॥ रागाः षडथ रागिण्यः षट्त्रिंशच्चारु- विग्रहाः । आगता ब्रह्मसदनात् ब्रह्माणं समुपासते ॥” * ॥
अथ ध्यानम् । “नितम्बिनीचुम्बितवक्त्रपद्मः शुकद्युतिः कुण्डलवान् प्रमत्तः । सङ्गीतशालां प्रविशन् प्रदोषे मालाधरो मालवरागराजः ॥ १ ॥ नीलोत्पलं कर्णयुगे वहन्ती श्यामा सुकेशी च सुमध्यभागा । ईषत्सहासाम्बुजरम्यवक्त्रा सा धानसी पद्मसुचारुनेत्रा ॥ १ ॥ करे युता चाम्बुजयुग्मरम्या इतस्ततश्चारु विलोकयन्ती । कण्ठस्फरन्मौक्तिकरत्नहारा सा मालसी संकथिता विचित्रा ॥ २ ॥ प्रतप्तचामीकरचारुवक्त्रा कर्णावतंसं कमलं वहन्ती । पुष्पं धनुः पुष्पशरैर्दधाना चन्द्रानना रामकिरी प्रदिष्टा ॥ ३ ॥ महेन्द्रनीलद्युतिरम्बुजाक्षी प्रवादयन्ती कपिलाशयन्त्रम् । विचित्ररत्नाभरणा सुकेशी सा सिन्धुडा कान्तसमीपसंस्था ॥ ४ ॥ जवाप्रसूनद्युतिविम्बवक्त्रा सकञ्चुपद्मं करयोर्दधाना । क्षौमांशुकाच्छादितगात्रयष्टि- राशावरी रङ्गकिला विदग्धा ॥ ५ ॥ सरोवरस्था स्फटिकस्य मन्दिरे सरोरुहैः शङ्करमर्च्चयन्ती । तालप्रयोगप्रतिरङ्गगीतै- र्गौरीतनुर्भैरविका सतीयम् ॥” ६ ॥ * ॥
अथ मल्लारः । “विहारशीलोऽतिसुकान्तदेहः कान्ताप्रियो धार्म्मिकशीलयुक्तः । कामातुरः पिङ्गलनेत्रयुग्मो मल्लाररागः प्रियकृत् सुवेशः ॥ १ ॥ सङ्केतितोत्फुल्ललतानिकुञ्जे कृतस्थितिः कान्तसमागमाय । वेलावली चम्पकमौलिनी सा बाला विचित्राभरणा निरुक्ता ॥ १ ॥ रहःसु कान्तप्रियमाणपत्रं रम्यं वहन्ती कुचकुम्भयुग्मे । दूर्व्वादलश्यामतनुः सकामा पुरातनैः सा पुरवी निरुक्ता ॥ २ ॥ अशोकवृक्षस्य तले निषण्णा वियोगिनी वास्पकणाञ्चिताङ्गी । विभूषिताङ्गी जटिलेव बाला सा कानडा हेमलतेव तन्वी ॥ ३ ॥ संगृथ्य संगृथ्य गले दधाना प्रसूनमाला दयितेन बाला । गौरी स्वकान्ताननचुम्बितास्या सा सुन्दरी माधविका निकुञ्जे ॥ ४ ॥ सुकच्छपीं वादयति स्वभर्त्तु- र्गानार्थमभ्यस्यति सम्मुखेन । सदैव ताला विहिता च माला कोडा कला तानवती मता सा ॥ ५ ॥ स्नात्वा समुत्तीर्णवती सुदेहा केशप्रणिष्यन्दितवारिबिन्दुः । निष्पीडयन्ती तिमिरांशुकान्तं केदारिका रक्तपरोधरश्रीः ॥” ६ ॥ * ॥
अथ श्रीरागः । “लीलावतारेण वनान्तराणि चिन्वन् प्रसूनानि बधूसहायः । विलासवेशो ह्यतिदिव्यमूर्त्तिः श्रीराग एष प्रथितः पृथिव्याम् ॥ १ ॥ सन्ध्यासुकाले गृहमध्यदेशे प्रवादयन्ती ह पिनाकयन्त्रम् । धाराधराधातुविचित्रिताङ्गी गान्धारिका गन्धस्रजं निधत्ते ॥ १ ॥ रसनया सुविचारकौतुकं विदधती कविकोविदकौतुकम् । सुकवितामृतभावनतत्परा भगवती सुभगा समुदाहृता ॥ २ ॥ पुष्पोद्याने सार्द्धमालीकलापैः क्रीडन्त्येवं कोकिलाकाकलीषु । रामा श्यामा सद्गुणानाञ्च सीमा गौरी गौरी गौरवालोकदिष्टा ॥ ३ ॥ अट्टालिकायां स्फुटकौमुदीभिः प्रकाशितायां रजनीविहारम् । अह्नाय कान्तेन समं वसन्ती कौमारिका कामकला वहन्ती ॥ ४ ॥ गौरीपादाम्भोजमभ्यर्च्चयन्ती गन्धोद्धूतं गन्धमाल्यं दधाना । नानारत्नोपायनैर्भक्तिभावै- र्वेलोयारी कथ्यते बालिकेयम् ॥ ५ ॥ उल्लासयन्ती धम्मिल्ले रहःस्थान् प्राणबन्धुना । मालतीकुसुमस्रग्भिर्व्वैरागी रागिनी स्मृता ॥” ६ अथ वसन्तः । “चूताङ्कुरेणैव कृतावतंसो विघूर्णमानारुणनेत्रपद्मः । पीताम्बरः काञ्चनचारुदेहो वसन्तरागो युवतिप्रियश्च ॥ १ ॥ सुनृत्यमानातिसुशीलयुक्ता मुक्तालताकल्पितहारयष्टिः । चूताङ्कुरं पाणियुगे वहन्ती जवारुणाङ्गी तुडिकेरितेयम् ॥ १ ॥ संगीतगोष्ठीषु गरिष्ठभावं समाश्रिता गायनसम्प्रदायैः । खर्व्वाङ्गिनी नूपुरपादपद्मा सा पञ्चमी पञ्चमवेदवेत्त्री ॥ २ ॥ उरसि केशचयस्य सुभारं विदधती शयनोत्थितचारुवेशम् । विलुलितालकवल्लिकृशाङ्गी भासुरा ललिता कथिता बुधैः ॥ ३ ॥ सखीकलापैः परिहास्यमाना वियोगिनी कान्तवियोगदेहा । पीनस्तनी चैव धराप्रसुप्ता श्यामा सुकेशी पठमञ्जरीयम् ॥ ४ ॥ कर्णोत्पलालम्बिमधुव्रताली शृणोति सा मञ्जुलकूजितानि । कान्तान्तिकं गन्तुमनाः प्रदोषे सा गुज्जरी वेशकलोचिताङ्गी ॥ ५ ॥ अध्यापयन्ती निजशिष्यवृन्दं सङ्गीतशास्त्राणि विवेचनाभिः । मनोहरा हारलताभिरामा समस्तभाषाकुशला विशेषा ॥” ६ ॥ * ॥
अथ हिन्दोलः । “हासाभिलासेन पतन् पृथिव्यां उत्थापितस्तत्क्षणमालिवृन्दैः । उल्लोलसङ्गीतरसैर्विदग्धो हिन्दोलरागः कथितो रसज्ञैः ॥ १ ॥ मयूरकेकाश्रवणोल्लसन्ती मयूरिकानृत्यततं किरन्ती । मयूरकान्तीव सितिं दधाना मायूरिका संकथिता गुणज्ञैः ॥ १ ॥ प्रदोषकाले गृहसंप्रविष्टा प्रदीपहस्तारुणगात्रवस्त्रा । सीमन्तसिन्दूरविराजमाना सुरक्तमाल्या किल दीपिकेयम् ॥ २ ॥ सार्द्धं सखीभिर्विजने वसन्ती विचित्रवक्षोजनितम्बसङ्गा । निरीक्ष्यमाणाननदर्पणा या सा देशकारी कथिता गुणज्ञैः ॥ ३ ॥ भर्त्तुर्दधाना चरणारविन्दं निषेधयन्ती परदेशयानम् । प्रकामदाम्पत्यसुखे निमग्ना सा पाहिडा संकथिता कवीन्द्रैः ॥ ४ ॥ कर्णे दधाना सुरपुष्पयुग्मं स्फुरत्सुवक्षोजमनोहराङ्गी । स्मेरानना चारुविलोलनेत्रा वराङ्गनेयं कथिता वडारी ॥ ५ ॥ उत्पन्नमात्रे प्रथमापराधे मानं पुनः कर्त्तमनाश्चीरेण । ऋजुस्वभावान्नियतं रुदन्ती सा मोरहाटी हठकेलिरुष्टा ॥” ६ ॥ * ॥
अथ कर्णाटः । “कृपाणपाणिस्तुरगाधिरूढो मयूरकण्ठातिसुकण्ठकान्तिः । स्फुरत्सितस्निग्धरसः प्रशान्तः कर्णाटरागो हरितालवर्णः ॥ १ ॥ चिरं नटन्ती शुभरङ्गमध्ये संप्रार्थयन्ती नटिनं वसन्तम् । सुगीततालेषु कृतावधाना नटी सुशाटीपरिधानदेहा ॥ १ ॥ स्वनायकं पुष्पलताधिरूढा हसन्मुखी सर्व्वमुदं वहन्ती । स्वनानि शश्वद्वितनोति मुग्धा भूपालिका सा स्खलदुत्तरीया ॥ २ ॥ अध्यापयन्ती शुकसारसारोः श्रीराम रामेति सुवेशलक्ष्मीः । वामस्तनार्द्धस्खलितांशुकश्रीः श्रीरामकेली कथिता कवीन्द्रैः ॥ ३ ॥ विशेषवैदग्ध्यवती समस्तान् कलाविलासेन विमोहयन्ती । बृहन्नितम्बा परिपुष्टदेहा वडा प्रलम्बस्तनभारभव्या ॥ ४ ॥ भर्त्तुः समं पाथसि सन्तरन्ती पयोविहारेण सरोरुहाणि । विचिन्वती सौरभमोदमाना कामोदरागिण्युदिता गुणज्ञैः ॥ ५ ॥ व्याधूता नटनृत्यपरिश्रमेण बाला लीलाभिः सुदती कृतादरा । नटीनां कल्याणी कलयति मत्तहस्ती एणप्रस्थानं मुखरिता किङ्किणीकलापम् ॥” ६ ॥ अथ रागरागिणीनां भावनिरूपणम् । “मालवः श्रीश्च हिन्दोलो मल्लारस्तदनन्तरम् । गायन्ति गायका धीर सानन्देन चतुष्टयम् ॥ वसन्तो रागः कर्णाटो द्वौ वीरौ भवतः क्रमात् ॥ धानसी मालसी चैव भैरवी माधवी तथा । सुभगा पञ्चमी नाटी वेलोयारी च गुज्जरी ॥ कामोदा चापि कल्याणी कोडा केदारिका तुडी । कौमारी मायूरी चैव देशकारी च सिन्धुडा ॥ रामकेली च भूपाली रागिण्यश्चेति विंशतिः । आनन्दांशा इति प्रोक्ता गीयन्ते गानकोविदैः ॥ पुरवी कानडा गौरी रामकिरी च दीपिका । आशावरी विभाषा च वडारी च गडा तथा । एताश्च नव रागिण्यो वीरांशे गानमुत्तमम् ॥ वेलावली च गान्धारी ललिता पठमञ्जरी । वैरागी रागिणी चापि मोरहाटी च पाहिडा । करुणांशा विजानीयात् सप्तैता रागयोषितः ॥ रागेण रसभागेन षट्त्रिंशद्रागिणीषु च । करुणानन्दवीरेषु ज्ञापनार्थं मतत्रयम् ॥” इति संगीतदामोदरे शिवनारदसंवादे १ । ३ अध्यायौ ॥ (तथा च संगीतदर्पणे । अथ रागाणामुद्भवं दर्शयति । “शिवशक्तिसमायोगाद्रागाणां सम्भवो भवेत् । पञ्चास्यात् पञ्च रागाः स्युः षष्ठस्तु गिरिजा- मुखात् ॥ सद्योवक्त्रात्तु श्रीरागो वामदेवाद् वसन्तकः । अघोराद् भैरवोऽभूत् तत्पुरुषात् पञ्चमो- ऽभवत् ॥ ईशानाख्यान्मेघरागो नाट्यारम्भे शिवादभूत् । गिरिजाया मुखाल्लास्ये नट्टनारायणोऽभवत् ॥” अथ रागवेला । “मधुमाधवी च देशाख्या भूपाली भैरवी तथा । वेलावली च मल्लारी वल्लारी सोमगुर्ज्जरी ॥ धनाश्रीर्मालवश्रीश्च मेघरागश्च पञ्चमः । देशकारी भैरवश्च ललिता च वसन्तकः ॥ एते रागाः प्रगीयन्ते प्रातरारभ्य नित्यशः । गुर्ज्जरी कौशिकश्चैव सावेरी पठमञ्जरी ॥ रेवा गुणकिरी चैव भैरवी रामकिर्य्यपि । सौराटी च तथा गेया प्रथमप्रहरोत्तरम् ॥ वैराटी तोडिका चैव कामोदी च कुडायिका । गान्धारी नागशब्दी च तथा देशी विशेषतः । शङ्कराभरणो गेयो द्बितीयप्रहरात् परम् ॥ श्रीरागो मालवाख्यश्च गौरी त्रिवणसंज्ञिका । नट्टकल्याणसंज्ञश्च सारङ्गनट्टकौ तथा ॥ सर्व्वे नाटाश्च केदारी कर्णाट्याभीरिका तथा । वडहंसी पहाढी च तृतीयप्रहरात् परम् । अर्द्धरात्रावधि ज्ञेया एते रागाः सुखप्रदाः ॥ यथोक्तकाल एवैते गेयाः पूर्व्वविधानतः । राजाज्ञया सदा गेया न तु कालं विचारयेत् ॥” इति रागवेला । अथ ऋतवः । “श्रीरागो रागिणीयुक्तः शिशिरे गीयते बुधैः । वसन्तः ससहायस्तु वसन्तर्त्तौ प्रगीयते ॥ भैरवः ससहायस्तु ऋतौ ग्रीष्मे प्रगीयते । पञ्चमस्तु तथा गेयो रागिण्या सह शारदे ॥ मेघरागो रागिणीभिर्युक्तो वर्षासु गीयते । नट्टनारायणो रागो रागिण्या सह हेमके ॥ यथेच्छया वा गातव्याः सर्व्वर्त्तुषु सुखप्रदाः ॥” इति रायाणां ऋतुनिर्णयः । इति सोमेश्वर- मतम् ॥ * ॥
)



Correction: