संस्कृत-शब्दकोशः

रागिणी राघ

रागिन्

शब्दकल्पद्रुमः

रागी || [न्] त्रि, (रन्ज + “संपृचानुरुधेति ।” ३ । २ । १४२ । इति तच्छीलादिषु घिणुन् । यद्वा, रागोऽस्यास्तीति । राग + इनिः ।)
अनु- रक्तः । (यथा, मार्कण्डेये । २१ । ४१ । “त्वय्यस्या हृदयं रागि भर्त्ता चान्यो भविष्यति । यावज्जीवमतो दुःखं सुरभ्या नान्यथा वचः ॥”)
कामुकः । इति विश्वः ॥ रङ्क्ता । इति मेदिनी ॥ (विषयानुरागयुक्तः । स च द्बिविधः । यथा, देवीभागवते । १ । १७ । ३७ — ३८ । ४१ । “द्वैविध्यं सर्व्वलोकेषु सर्व्वत्र द्बिविधो जनः । रागी चैव विरागी च तयोश्चित्तं द्बिधा पुनः ॥ विरागी त्रिविधः कामं ज्ञातोऽज्ञातश्च मध्यमः । रागी च द्विविधः प्रोक्तो मूर्खश्च चतुरस्तया ॥” “रागो यस्यास्ति संसारे स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखञ्च विविधं पुनः ॥” रक्तवर्णविशिष्टः । यथा, कथासरित्सागरे । २१ । ९ । “ईर्ष्यारुषामभावेऽपि भङ्गुरभ्रुणि रागिणि । न मुखे तत्तयो राज्ञ्योस्तद्दृष्टिस्तृप्तिमाययौ ॥”)
पुं, तृणधान्यविशेषः । तत्पर्य्यायः । लाञ्छनः २ बहुतरकणिशः ३ गुच्छकणिशः ४ । अस्य गुणाः । तिक्तत्वम् । मधुरत्वम् । कषायत्वम् । शीतत्वम् । पित्तास्रनाशित्वम् । बल्यत्वञ्च । इति राजनिर्घण्टः ॥



Correction: