वाचस्पत्यम्
राजक || न० राज्ञां समूहः कन् । १ नृपसमुदाये अमरः । राजैव क । २ नृपे पु० । राज—ण्वुल् । ३ दीप्तिमति त्रि० ।
शब्दकल्पद्रुमः
राजकं || क्ली (राज्ञां समूहः । राजन् + “गोत्रोक्षो- ष्ट्रोरभ्रराजेति ।” ४ । २ । ३९ । इति वुञ् ।)
नृप- समूहः । इत्यमरः । २ । ८ । ३ ॥ यथा, मार्क- ण्डेये । १०९ । ६ । “हृष्टपुष्टमतीवासीत् तस्मिन् राजन्यशेषतः । राजकं सकलं चोर्व्व्यां पौरजानपदो जनः ॥” राजन् + स्वार्थे कन् ।)
राजनि, पुं, । (यथा, हरिवंशे भविष्यपर्व्वणि । २४ । ९ । “तवाङ्गं तिलशः कृत्वा श्वभ्यो दास्यामि राजक ॥” राज् + ण्वुल् ।)
दीप्तिकारके, त्रि ॥