वाचस्पत्यम्
राजकदम्ब || पु० कदम्बानां राजा राजद० परनि० । कदम्बभेदे जटा० ।
शब्दकल्पद्रुमः
राजकदम्बः || पुं, (कदम्बानां राजा । राजदन्तादि- त्वात् परनिपातः ।)
कदम्बविशेषः । यथा, —
“कादम्बर्य्यः प्रावृषेण्यो नीपो धूलीकदम्बकः । कदम्बप्रियकौ राजकदम्बोऽरुष्करोऽग्निकः ॥” इति जटाधरः ॥