वाचस्पत्यम्
राजमार्ग || पु० राजयोग्यः मार्गः । १ राजपथे राजनि० ।
शब्दकल्पद्रुमः
राजमार्गः || पुं, (राज्ञो मार्गः ।)
राजपथः । तद्विवरणं यथा, —
“राजमार्गं सौधयुक्तं यः करोति पतिव्रते । वर्षाणामयुतं सोऽपि शक्रलोके महीयते ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥ अपि च । “त्रिंशद्धनूंषि विस्तीर्णो देषमार्गस्तु तैः कृतः । विंशं धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥ धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यका ॥ जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् । वृतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः । अवकरः परिवारः पादमात्रः समन्ततः ॥” इति देवीपुराणे गोपुरद्वारलक्षणं नामाध्यायः ॥ (अत्रामेध्योत्सर्गे दण्डविधानं कर्त्तव्यम् । यथा, मनुः । ९ । २८२ । “समुत्सृजेत् राजमार्गे यस्त्वमेध्यमनापदि । स द्वौ कार्षापणौ दद्यादमेध्याञ्चाशु शोघयेत् ॥” नीतिः । यथा, हरिवंशे भविष्यपर्व्वणि । ५४ । २ । “ज्ञानविज्ञानसम्पन्नौ राजमार्गविशारदौ । युयुधाते महारङ्गे राक्षसेन दुरात्मना ॥”)