शब्दकल्पद्रुमः
राजसी || स्त्री (रजस इयमिति । रजस् + अण् । ङीप् ।) दुर्गा । इति शब्दरत्नावली ॥ रजो- गुणसम्बन्धिनी च ॥ (यथा, गीतायाम् । “यया धर्म्ममधर्म्मञ्च कार्य्यञ्चाकार्य्यमेव च । अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥”)