वाचस्पत्यम्
राजसूय || पु० राज्ञा सूयते सू—कर्मणि क्यप् । राजमात्रकर्त्तव्ये यज्ञभेदे शब्दच० । “रांजा राजसूयेन यजेत” श्रुतिः ।
शब्दकल्पद्रुमः
राजसूयः || पुं, (“राज्ञा लतात्मकः सोमः सूयते ऽत्र ।” इत्यमरटीका ॥ सु + अधिकरणे क्यप् । “राज्ञा सोतव्यः राज्ञा वा इह सूयते ।” इति काशिका । “राजसूयसूर्य्येति ।” ३ । १ । ११४ । इति निपातनान् दीर्घः ।)
राजकर्त्तव्य- यज्ञविशेषः । तत्पर्य्यायः । नृपाध्वरः २ क्रतु- राजः ३ क्रतूत्तमः ४ । इति शब्दरत्नावली ॥ (अमरमते क्लीवलिङ्गोऽयम् । ३ । ५ । ३१ ॥ यथा, महाभारते । १ । १५७ । १६ । “यक्ष्यन्ति च नरव्याघ्रा निर्ज्जित्य पृथिवीमिमाम् राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥” राजसूयमन्त्रादिकं वाजसनेयसंहितायाम् ९ अध्यायस्य ३५ कण्डिकामारभ्य १० अध्या- यस्य ३० कण्डिकापर्य्यन्तं द्रष्टव्यम् ॥ युधिष्ठिरस्य राजसूययज्ञविवरणन्तु महाभारते सभापर्व्वणि विशेषतो द्रष्टव्यम् ॥)