शब्दकल्पद्रुमः
राजिका || स्त्री (राजते या । राज + ण्वुल् । टापि अत इत्वम् ।)
केदारः । राजसर्षपः । रेखा । इति मेदिनी । के, १४५ ॥ पङ्क्तिः । इति हेमचन्द्रः ॥ कृष्णसर्षपः । तत्पर्य्यायः । क्षवः २ क्षुधाभिजननः ३ कृष्णिका ३ आसुरी ५ । इत्यमरः । २ । ९ । १९ ॥ क्षुताभिजननः ६ असुरी ७ । इति तट्टीका ॥ रक्तवर्णसर्षपः । राइ इति भाषा । तत्पर्य्यायः । राजी २ आसुरी ३ रक्तिका ४ रक्तसर्षपः ५ तीक्ष्णगन्धा ६ मधूलिका ७ क्षवकः ८ क्षुतकः ९ क्षवः १० । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । वातप्लीहा- र्त्तिशूलकफगुल्मकृमिव्रणनाशित्वम् । दाहपित्त- प्रदत्वञ्च ॥ तत्तैलगुणाः । तीक्ष्णत्वम् । वातादि- दोषनाशित्वम् । शिशिरत्वम् । यूककण्डूघ्नत्वम् । केश्यत्वम् । त्वग्दोषनाशित्वञ्च ॥ तत्पत्रगुणाः । कटुत्वम् । उष्णत्वम् । कृमिवातकफकण्ठामय- हरत्वम् । स्वादुत्वम् । वह्निदीपनकारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । राजी तु राजिका तोक्ष्णगन्धा क्षुज्जनिकासुरी । क्षवः क्षुताभिजनकः कृमिकः कृष्णसर्षपः ॥ राजिका कफपित्तघ्नी तीक्ष्णोष्णा रक्तपित्तकृत् । किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोठकृमीन् हरेत् । अतितीक्ष्णा विशेषेण तद्बत् कृष्णापि राजिका ॥” इति भावप्रकाशः ॥