संस्कृत-शब्दकोशः

राजीफला राजेन्द्र

राजीव

वाचस्पत्यम्

राजीव ||‍ न० राजी दवराजी अस्त्यस्य व । १ पद्मे अमरः । “राजीचराजीवशकोलेति” माघः । २ हरिणभेदे ३ मत्स्य- भेदे च पुंस्त्री० मेदि० “राजीवसिंहतुण्डांश्च” मनुः । ४ गजे त्रिका० ५ सारसपक्षिणि च पुंस्त्री० अमरः सर्वत्र जातौ स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

राजीवं || क्ली (राजी दलश्रेणिरस्यास्तीति । राजी + “अन्येभ्योऽपि दृश्यते ।” ५ । २ । १०९ । इत्यस्य वार्त्तिकोक्त्या वः ।)
पद्मम् । इत्यमरः । १ । १० । ४१ ॥ (यथा, कुमारे । ३ । ४५ । “उत्तानपाणिद्वयसन्निवेशात् प्रफुल्लराजीवमिवाङ्कमध्ये ॥”)


शब्दकल्पद्रुमः

राजीवः || पुं, (राजी अस्त्यस्येति । राजी + वः ।)
हरिणभेदः । (अस्य लक्षणं यथा, —
“राजीवस्तु मृगो ज्ञेयो राजीभिः परितो वृतः ॥” इति भावप्रकास्य पूर्ब्बखण्डे द्वितीये भागे ॥)
बृहन्मीनभेदः । इति मेदिनी । वे, ४८ ॥ (यथा, मनुः । ५ । १६ । “पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः । राजीवान् सिंहतुण्डांश्च सशल्कांश्चैव सर्व्वशः ॥”)
हस्ती । इति । त्रिकाण्डशेषः ॥ सारसपक्षी । इत्यमरः ॥ राजोपजीविनि, त्रि । इत्यजयः ॥



Correction: