वाचस्पत्यम्
राज्ञी || स्त्री राज्ञः पत्नी ङीप् स्वयं वा राजते राज—कमिन् ङीप् वा । (राणी) १ राजपत्न्याम् २ खयं राजकर्मकर्त्र्याञ्च ३ सूर्य्यपत्न्यं मेदि० ४ कांस्ये हेमच० ।
शब्दकल्पद्रुमः
राज्ञी || स्त्री (राज्ञः पत्नी । राजन् + ङीप् । यद्वा, राजते इति । राज + कनिन् । ततः स्त्रियां ङोप् ।)
राजपत्नी । राणी इति भाषा ॥ (यथा, रघुः । १ । ५७ । “तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥”)
सूर्य्यपत्नी । इति मेदिनी । ञे, २ ॥ राजपत्न्यां वर्णनीयानि यथा, —
“देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः । त्रपाचातुर्य्यदाक्षिण्यप्रेममानव्रतादयः ॥ वेणीधम्मिल्लसीमन्तभालश्रवणनासिकम् । कपोलाधरनेत्रभ्रूकटाक्षरदकन्धराः ॥ गण्डबाहुकरोरोजनाभीमध्यवलित्रयम् । लोमालिश्रोणिजङ्घोरुपादयुग्मनखं क्रमात् ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ सूर्य्यपत्न्याः प्रमाणान्तरं यथा, — सूत उवाच । “विवस्वान् कश्यपात् पूर्ब्बमदित्यामभवत् पुरा । तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा ॥ रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । प्रभा प्रभावं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥ यमश्च यमुना चैव यमलौ तु बभूवतुः ॥” इति मात्स्ये ११ अध्यायः ॥ कांस्यः । इति । हेमचन्द्रः ॥ नीली इति राज- निर्घण्टः ॥ * ॥
(प्रतीची दिक् । यथा, छान्दोग्योपनिषदि । ३ । १५ । २ । “तस्य प्राची दिक् जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची मुभूता नामोदीचीति ॥” ‘तथा राज्ञी नाम प्रतीची पश्चिमा दिक् राज्ञी राज्ञा वरुणेनाधिष्ठिता सन्ध्यारागयोगाद्वा ।’ इति शाङ्करभाष्यम् ॥)