वाचस्पत्यम्
राज्य || न० राज्ञो भावः कर्म वा राजन् + यत् नलोपः । १ राजकर्मणि २ राजभावे च ३ जनपदे शब्दर० । “लक्षाधिपत्यं राज्यं स्यात् सामाज्यं दशलक्षके । शतलक्षे महेशानि! महासामाज्यमुच्यते” वरदातन्त्रोक्ते ४ लक्षग्रामाधिपत्ये च ।
शब्दकल्पद्रुमः
राज्यं || क्ली (राज्ञो भावः कर्म्म वा । राजन् + “पत्यन्तपुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इयि यक् ।)
राज्ञ इदम् । तत्पर्य्यायः । नीवृत् २ मण्डलम् ३ जनपदः ४ देशः ५ प्रदेशः ६ विषयः ७ राष्ट्रम् ८ उपवर्त्तनम् ९ । इति शब्दरत्नावली ॥ अमरमते नीवृज्जनपदौ अङ्गवङ्गकलिङ्गपञ्चालमगधकोशलादौ मण्डल- त्वेन ख्याते ग्रामसमूहे । देशविषयोपवर्त्तनानि च जनपदे जनपदसमुदाये । जनपदैकदेशे सजल- निर्जलस्थानमात्रे च । उपाधिभेदेन देशादित्रिकं भिन्नार्थम् । सामान्येन प्रयोगदर्शनात् । नीवृदा- दयः पञ्चैवैकार्थाः । इत्यपरे । एतच्चायुक्तम् । इति भरतः ॥ * ॥
तस्य लक्षणं अङ्गानि च यथा, —
“परस्यैवोपकारीदं सप्ताङ्गं राज्यमुच्यते ॥ अमात्रराष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः । एताः प्रकृतयस्तद्वद्विजिगीषोरुदाहृताः ॥ एताः पञ्च तथा मित्रं सप्तमं पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥ पौरश्रेणी तदङ्गञ्च ब्रुवते शब्दवेदिनः ॥ स्वाम्यमात्यः सुहृत् कोषो राष्ट्रं दुर्गं बलं तथा । पौरश्रेणी च राज्याङ्गं प्रकृतिश्च भवेत् द्धयम् ॥” इति शब्दरत्नावली ॥ अपि च । “लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके । शतलक्षे महेशानि महासाभ्राज्यमुच्यते ॥” इति वरदातन्त्रम् ॥