वाचस्पत्यम्
रात्रिवेद || पुंस्त्री० रात्रिं रात्रिशेषं वेदयति रनेण विद—णिच् अण् । कुक्कुटे शब्दच० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
रात्रिवेदः || पुं, (रात्रिं रात्रिशेषं वेदयति रवे- णेति । विद् + णिच् + अण् ।) कुक्कुटः । इति शब्दरत्नावली ॥