शब्दकल्पद्रुमः
रात्रिवेदी || [न्] पुं, (रात्रिं रात्रिशेषं वेदयति स्वरेणेति । रात्रि + विद् + णिच् + णिनिः ।) कुक्कुटः । इति त्रिकाण्डशेषः ॥