संस्कृत-शब्दकोशः

रात्रिवेदिन् रात्रिहास

रात्रिसत्त्र

वाचस्पत्यम्

रात्रिसत्त्र ||‍ न० रात्रिषु त्रयोदशादिदिनेषु विहितं सत्त्रम् । त्रयोदशाहादिषु विहिते यागभेदे तत्र घार्थवादिकं फलं प्रतिष्ठादिकम् न विश्वजिन्न्यायात् स्वर्गफलमिति जै० ४ । ३ । १७ । १८ सूत्रे समर्थितम् । “यद्यपि राक्तिशब्देन अथैष ज्योतिरथैष गौरित्यादिवाक्येन विहितानि सौत्राखिकर्मा- ण्युच्यन्ते द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरा- त्रादयश्च सत्त्रविशेषाः रात्रिसत्त्रपदवाच्यास्त्रयोदशसंख्यका रात्रयो यस्मिन् सत्त्रविशेषे स त्रयोदशरात्र इति व्युत्- पत्तेः तथापि बहुवचनान्तरात्रिशब्देन रात्रिसत्त्रमुच्यते “एता विंशतिं रात्रीः इति श्रवखात्” त० बो० । “फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्” जै० मू० । निर्देशादर्थवादेन फलस्य निर्देशात् फलमर्थवादोक्तम् आत्रेय आह अश्रुतौ यत्रार्थवादादिषु फलाश्रुतिस्त- त्रानुमानं स्वर्गफलकल्पनम्” वृ० “निर्देशात्तु प्रतिष्ठैव फलत्वेन विलप्यते” तथा च पतिष्ठाकाम आयुषा यजेत प्रतिष्ठाकामो ज्योतिषा यजेत” इत्यादिश्रुतिपदघटिता एव विधयः कल्प्यन्ते लाघवात् न तु स्वर्गकामादिपदघटिताः तत्त्ववो० । रात्रिसत्त्रन्यायोऽपि आर्थवादिकफलात्वयार्थः ।



Correction: