वाचस्पत्यम्
रात्री is an alternate of रात्रि. रात्रि(त्री) || स्त्री रा—त्रिप वा ङीप् । १ रजन्यां नृणां स्वस्वदेशापेक्ष वा सूर्व्वमण्ड अदर्शनयोग्ये काले २ हरिद्रायाञ्च अमरः । “मासेन च मनुव्याणां पितॄणां तदहर्निशम् । कृष्णपक्षे दिनं प्रोक्तं शुक्ले रात्रिः पकीर्त्तिताः” उक्ते पितॄणां ३ शुक्लपक्षरूपे काले “उत्त- रायणे दिनं प्रोक्तं रात्रिः स्यात् दक्षिणायने” इत्थुक्ते देवानां दक्षिणायनरूपे ४ काले च ।
शब्दकल्पद्रुमः
रात्री || स्त्री (रात्रि + कृदिकारादिति ङीष् ।)
निशा । इत्यमरटीकायां भरतः ॥ (यथा, ऋग्वेदे । १० । १२७ । १ । “रात्री व्यख्यत् आयती पुरुत्रा देव्यक्षभिः ॥” हरिद्रा । निशापर्य्यायत्वात् ॥)