वाचस्पत्यम्
राद्ध || त्रि० राध—कर्त्तरि कर्मणि वा क्त । १ सिद्धे २ पक्वे च हेम०
शब्दकल्पद्रुमः
राद्धं || त्रि (राध सिद्धौ + क्तः ।)
पक्वम् । सिद्धम् । इति हेमचन्द्रः । ३ । ७६ ॥ त्रिकाण्ड- शेषश्च ॥ (यथा, भागवते । ३ । ९ । ४० । “पूर्त्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥”)