शब्दकल्पद्रुमः
राधावेधी || [न्] पुं, (राधां धन्विचित्रविशेषं विध्यतीति । विध् + णिनिः ।)
अर्ज्जुनः । यथा, “राधावेधी किरीट्यैन्द्रिर्ज्जिष्णुः श्वेतहयो नरः । बृहन्नलो गुडाकेशः सुभद्रेशः कपिध्वजः । वीभत्सुः कर्णजित्तस्य गाण्डीवं गाण्डिवं धनुः ॥” इति हेमचन्द्रः । ३ । ३७३ ॥