शब्दकल्पद्रुमः
राधासुतः || पुं, (राधायाः सूतपत्न्याः सुतः ।)
कर्णः । यथा, —
“वेदिजा याज्ञसेनी च कर्णश्चम्पाधिपोऽङ्गराट् । राधासुतोऽर्कतनयः कालपृष्ठन्तु तद्बनुः ॥” इति हेमचन्द्रः । ३ । ३७५ ॥ (यथा, महाभारते । ८ । ८६ । ३ । “पश्य चैनं समायुक्तं रथं कर्णस्य पाण्डव । श्वेतबाजिसमायुक्तं युक्तं राधासुतेन च ॥”)