वाचस्पत्यम्
राधेय || पु० राधाया अपत्यम् पुत्त्रत्वेन परिग्रहणेन तत्पालितत्वात् ढक् । कर्णे
शब्दकल्पद्रुमः
राधेयः || पुं, (राधाया अपत्यमिति । राधा + “स्त्रीभ्यो ढक् ।” ४ । १ । १२० । इति ढक् ।)
कर्णः । इति त्रिकाण्डशेषः ॥ (यथा, महा- भारते । १ । १३४ । ११ । “सूतपुत्त्रस्तु राधेयो गुरुं द्रोणमियात्तदा ॥”)