वाचस्पत्यम्
राम || पु० रम—कर्त्तरि घञ् ण वा । १ परशुरामे २ दशरथ- ज्येष्ठपुत्रे श्रीरामे ३ बलरामे च “भार्गवो राघवो गोपस्त्रयो रामाः पकीर्त्तिता” वह्निपु० । रामशब्द- निरुक्तिः “रापब्दा विश्ववचनो मश्चापीश्वरवाचकः । “विश्वानाधीश्वरो यो हि तेन रामः प्रकोर्त्तित” ब्रह्मव० ज० ख० ११० अ० । ४ मनोहरे ५ सिते ६ असिते च त्रि० मेदि० । ७ वास्तूकशाके ८ कुष्ठे (कुड) न० मेदि० ९ तमालपत्रे न० राजनि० ।
शब्दकल्पद्रुमः
रामं || क्ली (रम्यतेऽनेनेति । रम् + घञ् ।)
वास्तू- कम् । कुष्ठम् । इति मेदिनी । मे, २६ ॥ तमाल- पत्रम् । इति राजनिर्घण्टः ॥ (नैशं तमः । यथा, ऋग्वेदे । १० । ३ । ३ । “सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन् रुशद्भिर्वर्णैरभिराममस्थात् ॥” “रामं कृष्णवर्णं शार्व्वरं तंमः अभ्यस्थात्सायं होमकाले अभिभूय तिष्ठति ।” इति तद्भाष्ये सायणः ॥)
शब्दकल्पद्रुमः
रामः || त्रि (रमते इति । रम् + णः । रम्यतेऽनेनेति । रम् + घञ् वा ।)
मनोज्ञः । (यथा, बृहत्- संहितायाम् । १९ । ५ । “गावः प्रभूतपयसो नयनाभिरामा रामा रतैरविरतं रमयन्ति रामान् ॥”)
सितः । असितः । इति मेदिनी । मे, २७ ॥
शब्दकल्पद्रुमः
रामः || पुं, (रमते इति । रम क्रीडायाम् + “ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति णः ।)
परशुरामः । स तु विष्णोरंशः जमदग्निमुनेः पुत्त्रत्वेन त्रेतायुगादाववतीर्णः एकविंशतिवारान् पृथिवीं निःक्षत्त्रियामक- रोत् । (असौ एव समन्तपञ्चके पञ्च क्षत्त्रिय- शोणितह्नदान् विधाय पितॄन् सन्तर्पयामास । यदुक्तं महाभारते । १ । २ । २ — ११ । सौतिरुवाच । “शृणुध्वं मम भो विप्रा ब्रुवतश्च कथाः शुभाः । समन्तपञ्चकाख्यञ्च श्रोतुमर्हथ सत्तमाः ॥ त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृत्मंवरः । असकृत् पार्थिवं क्षत्त्रं जघानामर्षचोदितः ॥ स सर्व्वं क्षत्त्रमुत्साद्य स्ववीर्य्येणानलद्युतिः । समन्तपञ्चके पञ्च चकार रौधिरान् ह्नदान् ॥ स तेषु रुधिराम्भःसु ह्नदेषु क्रोधमूर्च्छितः । पितॄन् सन्तर्पयामास रुधिरेणेति नः श्रुतम् ॥ अथर्चीकादयोऽभ्येत्य पितरो राममब्रुवन् । राम राम महाभाग प्रीताः स्मस्तव भार्गव ॥ अनया पितृभक्त्या च विक्रमेण तव प्रभो । वरं वृणीष्व भद्रन्ते यमिच्छसि महाद्युते ॥ राम उवाच । यदि मे पितरः प्रीता यद्यनुग्राह्यता मयि । यच्च रोषाभिभूतेन क्षत्त्रमुत्सादितं मया ॥ अतश्च पापान्मुच्येऽहमेष मे प्रार्थितो वरः । ह्नदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ॥ एवं भविष्यतीत्येवं पितरस्तमथाब्रुवन् । तं क्षमस्वेति निषिषिधुस्ततः स विरराम ह ॥ तेषां समीपे यो देशो ह्नदानां रुधिराम्भसाम् । समन्तपञ्चकमिति पुण्यं तत् परिकीर्त्तितम् ॥” अस्यान्यद्विवरणं परशुरामशब्दे द्रष्टव्यम् ॥ *)
राघवः । श्रीरामचन्द्रः स च पूर्णब्रह्मस्वरूपः अयोध्याधिपतिदशरथराजतनयत्वेन त्रेतायुग- शेषे रावणादिवधार्थमवतीर्णः । बलदेवः । स तु अनन्तदेवो विष्णोरंशः यदुवंशीयवसुदेव- पुत्त्रत्वेन द्वापरयुगान्ते कंसादिवधार्थमवतीर्णः । (यथा, भागवते । १ । ११ । १७ । “निशम्य प्रेष्ठमायान्तं वासुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥”)
त्रयो रामा यथा, —
“अघोरश्चाथ बाणश्च महाकालौ प्रकीर्त्तितौ । भार्गवो राघवो गोपस्त्रयो रामाः प्रकीर्त्तिताः ॥” इति वह्निपुराणम् ॥ * ॥
वरुणः । घोटकः । पशुभेदः । इति मेदिनी । मे, २६ ॥ (रम् + भावे घञ् । रतिः । यथा, भागवते । ७ । ६ । १४ । “सर्व्वत्र तापत्रयदुःखितात्मा निर्व्विद्यते न स्वकुटुम्बरामः ॥” “स्वकुटुम्बे रामो रतिर्यस्य ।” इति तत्र श्रीधरस्वामी ॥)
रामशब्दस्य व्युत्पत्तिर्यथा, —
“राशब्दो विश्ववचनो मश्चापीश्वरवाचकः । विश्वानामीश्वरो यो हि तेन रामः प्रकीर्त्तितः ॥ रमते रमया सार्द्धं तेन रामं विदुर्ब्बुधाः । रमाणां रमणस्थानं रामं रामविदो विदुः ॥ रा चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः । लक्ष्मीपतिं गतिं रामं प्रवदन्ति मनीषिणः ॥ नाम्नां सहस्रं दिव्यानां स्मरणे यत् फलं लभेत् । तत् फलं लभते नूनं रामोच्चारणमात्रतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११० अध्यायः ॥ (तथा च अध्यात्मरामायणे । १ । ३ । ४४ । “यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे । तं गुरुः प्राह रामेति रमणाद्राम इत्यपि ॥” एतत्कृतराक्षसवधवृत्तान्तं विचार्य्य यदुक्तं रामानुजेन तदाह । “अत्र युद्धदिवसगणनायां कतकतीर्थौ । पूर्व्वं सुवेलारोहणदिने । ‘ततोऽस्तमगमत् सूर्य्यः सन्ध्यया प्रतिरञ्जितः । पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्त्तते ॥’ इत्युक्तेस्तद्दिनं चतुर्द्दशीपूर्णिमान्यतरदिति स्पष्टम् । ततः कृष्णप्रतिपदि युद्धारम्भस्तस्या- मेव रात्रौ नागपाशबन्धतद्विमोक्षौ । द्बिती- यायां धूम्राक्षवधः । तृतीयायां वज्रदंष्ट्रस्य । चतुर्थ्यामकम्पनस्य । पञ्चम्यां प्रहस्तस्य । षष्ठ्यां रावणभङ्गः । सप्तम्यां कुम्भकर्ण- वधः । अष्टम्यामतिकायादेः । नवम्यामिन्द्र- जितो ब्रह्मास्त्रप्रयोगः । दशम्यां दिवा निकुम्भवधः । तद्रात्रौ मकराक्षवधः । एका- दश्यादित्रयोदश्यन्तदिनत्रयेण इन्द्रजिद्वधः । चतुर्द्दश्यां मूलबलवधः । अमायां रावणयुद्धा- रम्भतद्वधाविति पञ्चदशदिनानि सर्व्वं युद्ध- मिति । अत्रेदं वक्तव्यम् । केयं कृष्णप्रतिपत् माघकृष्णस्य वा चैत्रकृष्णस्य वा । नाद्यः चैत्रे पुष्यानक्षत्रेऽयोध्यातो वनं प्रति रामस्य प्रस्थान- मिति स्पष्टमयोध्याकाण्डे । चैत्रे पुष्यश्च शुक्ल- पक्ष एव तत्रापि नवम्यादिदिनत्रये एवेति स्पष्टमेव ज्योतिषादौ । तत्र नवमीरिक्तात्वाद- भिषेकायोग्या दशम्येव तु पूर्णत्वाद्योग्या । एवञ्च चैत्रशुक्लदशम्यां प्रस्थानम् । तत्र माघ- कृष्णामायां युद्धसमाप्तौ तदुत्तरपञ्चम्यां भर- द्वाजाश्रमगमनम् । ‘पूर्णे चतुर्द्दशे वर्षे पञ्चम्यां लक्षणाग्रजः । भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥’ इति वक्ष्यमाणत्वात् । तत्र न च चतुर्द्दशवर्ष- समाप्तिरिति भगवतः प्रतिज्ञाहानिः । पूर्णे चतुर्द्दशे वर्षे इत्युक्तेरसङ्गतिश्च । युद्धोत्तरं तावत्कालं लङ्कायामवस्थानस्यालाभाच्च । चैत्र- शुक्लपञ्चम्यां तत्रागमनेऽपि पञ्चदिनन्यूनतैवेति तद्धानिस्तदवस्थैव । तदुत्तरद्वितीयदिने एवायो- ध्याप्रवेशस्य लाभात् । अमान्तमानेन चैत्रकृ- ष्णोत्तरपञ्चम्यां तदाश्रमगतावपि चतुर्द्दशवर्षतो बहुदिनाधिक्येन चतुर्द्दशवर्षसमाप्तिदिनेऽयोध्या- नागमे “मया प्राणा हेया” इति भरतप्रतिज्ञा- हानिः । सा च प्रतिज्ञा चित्रकूटे रामसन्निधा- वित्ययोध्याकाण्डान्ते स्पष्टम् । एतेन चैत्रकृष्ण- प्रतिपदि युद्धारम्भस्तच्छुक्लप्रतिपदि रावणसंहार इति तीर्थोक्तश्चैत्रकृष्णस्येत्यन्त्योऽपि परास्तः । पूर्णिमान्तमानेन तिथिबद्धद्वादशमासैर्व्वर्षगणने पञ्चदिनानां न्यूनत्वात् । अमान्तमानेन चैत्र- कृष्णग्रहणे बहुदिनाधिक्यम् । सावनमानेन षष्ट्युत्तरत्रिशता दिनैर्व्वर्षगणने तु तिथिबद्धवर्षात् तत्र षड्दिनाधिक्येन चतुर्द्दशवर्षाणाञ्चतुरशी- त्यहोरात्रवृद्ध्या बहुदिनन्यूनतैव । किञ्च महा- भारते युधिष्ठिरवनवासे त्रयोदशवर्षमिते किञ्चित्कालादर्व्वागेव तेषां प्राकट्ये दुर्य्योधनेन तदसमाप्तौ एषां प्राकट्येन पुनस्तावत्पर्य्यन्तं पुनरेतैर्वनवासः कर्त्तव्यो भविष्यतीति भीष्मं प्रत्युक्ते भीष्मवाक्यं विराटपर्व्वणि । ‘पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः । एषामप्यधिका मासाः पञ्च च द्वादशक्षपाः त्रयोदशानां वर्षाणामिति मे धीयते मतिः । सर्व्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम् ॥ एवमेतद्ध्रुवं ज्ञात्वा ततो वीभत्सुरागतः । सर्व्वे चैव महात्मानः सर्व्वे धर्म्मार्थकोविदाः ॥ येषां युधिष्ठिरो राजा कस्माद्धर्म्मेपराध्नुयुः ॥’ इति । एवञ्चेदृशव्यवहारनिबद्धद्वादशमासैरेव वर्षगणना । अधिकमासगणना चोचितैव । एवञ्चाधिकमासगणनायां धर्म्माहानौ न्याय्यत्वे च स्थिते कस्माद्रामस्तानुपेक्षेत । भरतो वा तान्न गणयेत् । एवञ्चामान्तमानेन चतुर्द्दशी- याश्विनकृष्णे । पूर्णिमान्तमानेन कार्त्तिककृष्णे षष्ठ्यां तत्समाप्तिरित्यायाति । अन्यथा चैत्र- शुक्लदशम्यामारब्धस्य वनवासस्य षष्ठ्यां चतु- र्द्दशवर्षसमाप्तिर्न कथमप्युपपद्यते । तद्गणने तु एकादशदिनन्यूनषण्णां मासानां चतुर्द्दशवर्षेषु वृद्धावुपपद्यत एव सा । तस्मात् द्वादशसमाप्त्यु- त्तरं त्रयोदशे किञ्चिद्व्यतीते अरण्यकाण्डोक्ता- स्मद्रीत्या फाल्गुनाष्टम्यां रावणकृतसीताप- हारः । ततश्चतुर्द्दशे किञ्चिद्ब्यतीते रामस्य लङ्कासमीपगमनम् । वर्त्तते दशमो मासो द्बौ तु शेषौ प्लवङ्गमेति सीतोक्तिः सावनमानेन स्वहरणदिनतः कालगणनया । तत्र पूर्णचन्द्र- प्रदीप्ता चेति रामोक्त्या पौषशुक्लचतुर्द्दश्यां पूर्णि- मायां वा त्रिकूटशिखरप्राप्ती रामस्य । किञ्च हनूमतो लङ्काप्रवेशोत्तरं सीतादर्शनकाले हिमव्यपायेन च शीतरश्मिरभ्युत्थितो नैक- सहस्ररश्मिरिति वाक्येन द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृत इति रावणवाक्येन मार्गशुक्लदशम्युत्तरं हनूमतो लङ्काप्रवेशो दिन- द्वयान्तरे लभ्यते इति निरूपितं सुन्दरकाण्डे । ततो मार्गकृष्णाष्टम्यां राघवप्रस्थानस्यान्यत्रोक्त- त्वेन पौषपूर्णिमात्वमेवोचितं तत्प्राप्तिदिनस्य । ततो दशपञ्चदिनानि सेनानिवेशदूतप्रेषणादिना गतानि । ततो युद्धारम्भस्तत्र तदारभ्य भाद्र- श्रावणोभयामान्तं लङ्कापुराद् बहिः सेनयोः सङ्कुलं युद्धम् । ततो बहुराक्षसक्षयेण भीता राक्षसा लङ्कां प्रविष्टा इति तद्दिनेऽवहारः । तदुत्तरप्रतिपदि रात्राविन्द्रजित्कृतशरबन्ध इत्यादि । अतएव शरबन्धबद्धराघवदर्शनकाले सीतावाक्यम् । तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हताविति । अनेन बहुदिनयुद्धे बहुषु राक्षसेषु क्षयितेषु यूथपकतिपयरूपेऽत्यल्पाव- शिष्टे सैन्ये तयोः शरबन्ध इति लभ्यते । तथा अयं ते सुमहान् कालः शयानस्य महाबलेति कुम्भकर्णम्प्रति रावणोक्त्या साम्प्रततन्निद्रायाः षण्मासाधिकत्वप्रतीतेरप्येवमेवोचितम् । निरू- पितञ्चैतत् प्राक् । सेतुबन्धादिवृत्तान्तं त्वं न जानीषे इति कुम्भकर्णम्प्रति रावणोक्त्या पूर्व्व- मन्त्रकरणोत्तरं मध्ये जागरणाभावस्य प्रतीतेः । किञ्च । शरबन्धनदिनं न कृष्णप्रतिपत् । तस्याः पूर्णिमोत्तरत्वेन सम्पूर्णरात्रौ चन्द्रसत्तया तस्मिं- स्तमसि दारुणे इत्याद्युक्तेरसङ्गत्यापत्तेरतः सा शुक्लप्रतिपद्वाच्या । एवञ्चामान्तपक्षमात्रं युद्ध- मित्यस्यात्यन्तमसङ्गत्यापत्तिः । यत्तु अमायामेव रावणवध इति तत्तु न युक्तम् । इन्द्रजिद्वधो- त्तरम् । ‘अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्द्दशीम् । कृत्वा निर्य्याह्यमावास्यां विजयाय बलैर्वृतः ॥’ इति रावणम्प्रति सुपार्श्वस्योक्त्या । चतुर्द्दश्यां रावणप्रेषितबलवधोत्तरममायां निर्गतरावणेन रामलक्षणयोर्युद्धे रात्रौ लक्ष्मणस्य शक्ति- घातोत्तरं रावणलङ्काप्रवेशस्योक्ततया ततो लक्ष्मणचिकित्सोत्तरं पुना रामरावणयुद्धस्य वाल्मीकिनैव स्पष्टमुक्ततया तदसम्भवात् । किञ्च । आदित्यहृदयस्यादित्यं प्रेक्ष्य जप्त्वेद्रं परं हर्षमवाप्तवानित्यनेन सूर्य्यदर्शनोत्तरं जपस्योक्ततया रावणमरणोत्तरं स्थिरप्रभ- श्चाभ्यभवद्दिवाकर इत्युक्त्या दिवा तद्बधप्रतीत्या च चिरकालयुद्धोत्तरं लक्ष्मणे शक्तिघातस्य तदथमोषधीपर्व्वतानयनस्य चोक्तत्वेनामारात्रौ शक्तिघातप्रतीत्या रणाद्रावणापगमस्य प्रतीत्या च तद्विरोधात् । तथा पाद्मे । ‘ततो जज्ञे महायुद्धं सङ्कुलं कपिरक्षसाम् । मध्याह्ने प्रथमं युद्धं प्रारब्धं प्रतिपद्यभूत् ॥’ प्रतिपदि शुक्लप्रतिपदीत्यर्थः । उक्तयुक्तेः । ‘ततो निशि समागम्य मायावी शक्रजिद् बली । बबन्ध नागपाशैस्तौ राधवौ च हरिव्रजान् ॥’ ततः चिरकालसङ्कुलयुद्धोत्तरम् । अन्यथा तस्यां निशीत्येव वदेत् । अग्रे द्वितीयेऽह्नि षष्ठ्यामिति चोक्त्या दारुणे तमसीति रामायणोक्त्या च भाद्रश्रावणोभयमामोत्तरप्रतिपद्येतदिति बोध्यम् । ‘वैनतेयस्तदाभ्येत्य तानि चास्त्राण्यमोचयत् । द्वितीयेऽहनि धूम्राक्षं हनूमान्निजघान वै ॥ तृतीयेऽह्निवज्रदंष्ट्रं खड्गाच्चिच्छेद चाङ्गदः । जघान हनूमान् भूयश्चतुर्थेऽहन्यकम्पनम् ॥ प्रहस्तं पञ्चमीतिथ्यां नीलश्चिच्छेदमूर्द्धनि । रावणः परिभूतोऽभूत् षष्ठ्यां रामेण धन्विना ॥ अथ लङ्केश्वरः खिन्नः कुम्भकर्णं सहोदरम् । शैलमुद्गरघाताश्वधावनाद्यैरबोधयत् । जघान तं कुम्भकर्णं रामः सप्तमवासरे ॥’ इदं बोधनं दिनद्वयेन । तं बोधितं कुम्भकर्णम् । सप्तमवासरे बोधनोत्तरं सप्तमवासरे इत्यर्थः । यत् तु बोधनं षष्ठ्यां रात्रौ सप्तम्याञ्चैतद्वध इति तन्न । तदुत्थापने उक्तस्यातिप्रयासस्य रात्रि- मात्रेणासम्भवात् । रावणमन्दिरगमनकाले सूर्य्यप्रभया रावणमन्दिरस्यातिभास्वरत्ववर्ण- नेन मन्त्रादिना सप्तम्यां युद्धासम्भवात् । इन्द्र- जितो दिनत्रयेण वधोऽस्य यामषट्केनेत्यस्या- सङ्गतत्वाच्च । एवञ्च भाद्रपूर्णिमायामेतद्वधः । ‘जघान लक्ष्मणोऽन्येद्युरतिकायं दशास्यजम् । बबन्धान्येद्यु रिन्द्रारिर्ब्रह्मास्त्रेण नृपौ कपीन् ॥ हनूमता समानीतो महौषधमहीधरः । तस्यानिलस्पर्शवशात् सर्व्व एते समुत्थिताः ॥ अन्येद्युः कपिराट्कुम्भं निकुम्भं वायुजोऽवधीत् । तस्यां निशि रघुश्रेष्ठो जघान मकरेक्षणम् ॥ मायासीतावधञ्चक्रे शक्रजिद्रणमूर्द्धनि । तेन खिन्नोऽभवद्राम आश्वस्तो लक्ष्मणेन सः । त्रयोदशाहे सौमित्रिस्त्रिदिनं योधयन् बली ॥ जघान शक्रजेतारं रामध्यानेन हेतुना ॥’ अन्येद्युः अन्येषु दिवसेषु । अत्रातिकायग्रहणं त्रिशिरोदेवान्तकनरान्तकमहोदरमहापार्श्वो- पलक्षणम् । लक्ष्मणग्रहणमङ्गदहनूमतोरप्युप- लक्षणम् । एवं षड्भिर्द्दिनैः षण्णां वधः । पूर्ब्बं क्रमेणैव तद्वधोक्तेः । अन्येद्युः सप्तम्याम् । पर्व्वतानयनमष्टम्याम् । अम्येद्युर्नवम्याम् । तस्यां निशि नवमीरात्रौ तदन्ते मायासीतावधः । ततो दशमीचतुर्थयाममारभ्य त्रयोदशीचतुर्थ- यामपर्य्यन्तमिन्द्रजिद्वधः । ‘ततोऽवधीन्मूलबलञ्चतुर्द्दश्यां रघूद्वहः । दर्शेऽथ निर्य्ययौ राजा योद्धुं रामेण संयुगे ॥ चतुरङ्गबलैः सार्द्धं मन्त्रिभिर्द्दशकन्धरः । छत्रचामरसंयुक्तः सर्व्वाभरणभूषितः ॥ महारथगतो द्वारादुत्तरान्निर्य्ययौ बहिः । आगतो रक्षसां राजा ब्रह्मघ्नो देवकण्टकः ॥ योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः । तत्र युद्धं समभवद्वानराणाञ्च रक्षसाम् ॥ रामरावणयोश्चैव तथा सौमित्रिणा सह ॥ शक्तिञ्चिक्षेप संक्रुद्धः सोऽनुजं प्रति रावणः । वक्षसा धारयामास सौमित्रिस्तां वियद्गताम् ॥ तया स बाध्यमानः सन् पपात धरणीतले ॥ हनमता जीवितोऽभूदोषध्यानयनात् पुनः । ततः क्रुद्धो महातेजा राघवो राक्षसान्तकः ॥ जघान राक्षसान् सर्व्वान् शरैः कालान्तको- पमैः । भयात् प्रदुद्रावं रणे लङ्कां प्रति निशाचरः ॥ जगद्वाममयं पश्यन्निर्व्वेदात् स्वगृहं विशत् । निकुम्भिलां ततः प्राप्य होमञ्चक्रे जिगीषया ॥ ध्वंमितं वानरेन्द्रैस्तदभिचारात्मकं रिपोः । पुनरुत्थाय पौलस्त्यो रामेण सह योधितुम् ॥ दिशं स्यन्दनसारुह्य राक्षसैर्निर्य्ययौ बहिः ॥’ ददं निर्गमनमाश्विनशुक्लप्रतिपदि । ‘ततः शतमखो दिव्यं रथं हर्य्यश्वसंयुतम् । राघवाय स्वसूतेन प्रेषयामास भक्तिमान् ॥ तन्तु मातलिनानीतमारुह्य रथसत्तमम् । स्तूयमानः सुरगणैर्युयुधे तेन रक्षसा ॥ ततो युद्धमभूद्घोरं रामराघवयोर्म्महत् । सप्ताह्निकमहोरात्रं शस्त्रास्त्रैरतिभीषणैरिति ॥’ ततो मातलिरथागमनदिनोत्तरम् । एवञ्च नवम्यां तद्बधः । तदुक्तं कालिकापुराणे । ‘रामस्यानुग्रहार्थं वै रावणस्य वधाय च । रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा ॥ ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विनेऽसिते । जगाम नगरीं लङ्कां यत्रासीद्राघवः पुरा ॥’ आगत इति शेषः । इदञ्चागमनं रात्र्यन्ते तदैव मातलिरथागमनम ‘तत्र गत्वा महादेवी तदा तौ रामलक्ष्मणौ । युद्धेन योजयामास स्वयमन्तर्हिताम्बिका ॥ राक्षसानां वानराणां जग्ध्वा सा मांसशोणि- तम् । रामरावणयोर्युद्धं सप्ताहं सा न्ययीजयत् ॥ व्यतीते सप्तमे रात्रे नवम्यां रावणं ततः । रामेण घातयामास महामाया जगन्मयी ॥ यावत्तयोः स्वयं देवो युद्धकेलिमुदैक्षत । तावत्तु अष्टरात्राणि सर्व्वैर्द्देवैः सुपूजिता ॥ निहते रावणे वीरे नवम्यां सकलैः सुरैः । विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः ॥’ सकलैः सुरैरित्यस्य सहेति शेषः । ‘रामरावणबाणैस्तु युद्धञ्चावेक्ष्य भीतिदम् । तृतीयायान्तु लङ्कायाः पूर्ब्बोत्तरदिशि स्थितम् ॥ स्वातिनक्षत्रयुक्तायां भीतं सुरबलं महत् । शान्त्यथ वारयामास देवेन्द्रो वचनाद्धरेः ॥’ शान्त्यर्थं भयशान्त्यर्थम् । ‘ततस्तु श्रवणे नाथ दशम्यां चण्डिका शुभाम् । विसृज्य चक्रे शान्त्यर्थं बलनीराजनं हरिः ॥’ रिपुजनितभयशान्त्यर्थमित्यर्थः । ‘नीराजितबलः शक्रस्तत्र रामं सलक्ष्मणम् । सम्भाष्य प्रययौ स्वर्गं सह देवैः शचीपतिः ॥ इति वृत्तं पुरा कल्पे मनोः स्वायम्भुवेऽन्तरे । पुरा कल्पे यथा वृत्तं प्रतिकल्पं तथैव तु ॥ प्रवर्त्तते स्वयं देवी दैत्यानां नाशनाय वै ।’ स्वायम्भुवमन्वन्तररूपे पुरा कल्पे इत्यर्थः । प्रतिकल्पं प्रतिमन्वन्तरमित्यर्थः । जलप्लवसामा- न्येन तत्रापि कल्पव्यवहारात् । ‘प्रतिकल्पं भवेद्रामो रावणश्चापि राक्षसः । तथैव जायते युद्धं तथैव त्रिदशागमः ॥ एवं रामसहस्राणि रावणानां तथैव च । भवितव्यानि भूतानि तेषु देवी प्रवर्त्तते ॥ तां पूजन्ति सुराः सर्व्वे बलं नीराजयन्ति च । तथैव च नराः सर्व्वे कुर्य्युः पूजां यथाविधि ॥ बलनीराजनं राजा कुर्य्याद् बलविवृद्धये ॥’ इति । इयञ्च ब्रह्मबोधिता महादेवी अग्नौ प्रविष्टा सीतैव भगवच्छक्तिरूपेति प्रतिभाति । अतएव ब्रह्मवैवर्त्ते प्रथमेऽंशविभागे । प्रतिकल्पं विष्णो- श्चरितं कीदृशमिति नारदप्रश्ने ब्रह्मवाक्यम् । ‘स एव भगवान्नूनं प्रतिमन्वन्तरं मुने ! । वधाय दुष्टदैत्यानां भूमिभारकृतां भुवि ॥ कलिद्वापरयोः सन्धौ भविष्यति न संशयः । प्रतिकल्पं त्वेवमेव भविष्यति न संशयः ॥” इति । सहस्रकृत्वो रामोऽपि भविता ब्रह्मणो दिने इति ब्रह्मवैवर्त्ते प्रथमविभागस्थे राधां प्रति कृष्णवाक्ये । दिने इति जातावेकवचनम् । दिनेष्वित्यर्थः । पूर्ब्बं प्रतिमन्वन्तरमित्युक्तेः । प्रतिचतुर्युगं रामाद्यवतार इति तु न युक्तम् । चतुर्व्विंशतितमचतुर्युगे रामावतारस्याष्टा- विंशतितमचतुर्युगे कृष्णावतारस्य हरिवंशे पुरा- णान्तरे च प्रसिद्धत्वादिति दिक् । अग्निवेश्य- रामायणमिति प्रसिद्धग्रन्थेषु । ‘रामः पञ्चदशे वर्षे षड्वर्षामपि मैथिलीम् । उपयेमे त्वयोध्यायां द्वादशाब्दानुवास सः ॥ सप्तविंशतिमे वर्षे वनवासमकल्पयत् । अष्टादश तु वर्षाणि सीतायास्तु तदाभवन् ॥ त्रिरात्रमुदकाहारश्चतुर्थेऽह्नि फलाशनः । पञ्चमे चित्रकूटे तु रामो वासमकारयत् ॥ अथ त्रयोदशे वर्षे पञ्चवट्यां महामनाः । रामो विरूपयामास घोरां शूर्पणखां वने ॥ ततो माघे सिताष्टम्यां मुहूर्त्ते वृन्दसंज्ञके । राघवाभ्यां विना सीतां जहार दशकन्धरः ॥’ माघे शुक्लचतुर्द्दश्यामिति पाठान्तरम् । ‘मार्गशुक्लदशम्यान्तु वसन्तीं रावणालये । सम्पातिर्द्दशमे मासे आचख्यौ वानरेषु ताम् ॥ एकादश्यां महेन्द्राग्रात् पुप्लुवे शतयोजनम् । तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥ द्वादश्यां शिंशपावृक्षे हनूमान् पर्य्यवस्थितः । तस्यां निशायां सीतायां विश्वासालापसत्- कथाः ॥ अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्त्तत । बधो ह्यक्षकुमारस्य वनविध्वंसनं तथा ॥ ब्रह्मास्त्रेण चतुर्द्दश्यां बद्धः शक्रजिता कपिः । वह्निना पुच्छयुक्तेन लङ्काया दहनं तथा ॥ पौर्णमासीं महेन्द्राद्रौ पुनरागमनं कपेः । मार्गासितप्रतिपदः पञ्चभिः पथि वासरैः ॥ पुनरागम्य षष्ठेऽह्नि ध्वस्तं मधुवनञ्च तैः । सप्तम्यां प्रत्यभिज्ञानदानं शुद्धिनिवेदनम् ॥ अष्टम्युत्तरफल्गुन्यां मुहूर्त्ते विजयाभिधे । मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य तु । वासरे सप्तमेऽम्भोधौ स्कन्धावारनिवेशनम् ॥ पौषशुक्लप्रतिपदस्तृतीया यावदम्बुधेः । उपस्थानं ससैन्यस्य राघवस्य बभूव ह ॥ विभीषणश्चतुर्थ्यां वै रामेण सह सङ्गतः । समुद्रतरणार्थाय पञ्चम्यां मन्त्र उद्गमः ॥ प्रायोपवेशनञ्चक्रे रामो दिनचतुष्टयम् । समुद्रवरलाभश्च सेतूपायप्रकीर्त्तनम् ॥ सेतोर्द्दशस्यामारम्भस्त्रयोदश्यां समापनम् । चतुर्द्दश्यां सुवेलाग्रे रामः सैन्यं न्यवेशयत् ॥ पौर्णमास्यां द्वितीयान्तं त्रिदिनैः सैन्यतारणम् । तृतीयाया दशम्यन्तं मन्त्रो गुल्मनिवेशने ॥ शुकसारणयोः सैन्यप्राप्तिरेकादशे दिने । माघे सितायां द्वादश्यां सैन्यसंख्या कृता तु वै ॥ सारणेन कपीनान्तु सारासारोपवर्णनम् । त्रयोदश्याद्यमां यावल्लङ्कायां दिवसैस्त्रिभिः ॥ रावणः सैन्यसंख्यानं रणायोत्साहनं तथा । ययावथाङ्गदो दौत्यं माघशुक्लादिवासरे ॥ माघशुक्लद्वितीयादिदिनैः सप्तभिरेव तु । रक्षसां वानराणाञ्च युद्धमासीत् सुदारुणम् ॥ माघशुक्लनवम्यान्तु रात्राविन्द्रजिता रणे । रामलक्ष्मणयोर्नागपाशैर्ब्बन्धो बभूव ह ॥ नागपाशविमोक्षार्थं दशम्यां गरुडोऽभ्यगात् । अत्रावहारः कथितो दशम्यादिदिनद्वयम् ॥ द्वादश्यामाञ्जनेयेन धूम्राक्षस्य वधः कृतः । त्रयोदश्यान्तु तेनैव निहतोऽकम्पनो रणे ॥ माघशुक्लचतुर्द्दश्यां यावत् कृष्णादिवासरम् । त्रिदिनेन प्रहस्तस्य नीलेन विहितोऽवधः ॥ माघासितद्वितीयायाश्चतुर्थ्यन्तन्त्रिभिर्द्दिनैः । रामेण तुमुले युद्धे रावणो द्रावितो रणात् ॥ पञ्चम्यास्त्वष्टमी यावद्रावणेन प्रबोधितः । कुम्भकर्णः समुत्तस्थौ तावद्युद्धञ्चतुर्द्दिनम् ॥ कुम्भकर्णो दिनैः षड्भिर्न्नवम्यास्तु चतुर्द्दशीम् । रामेण निहतो युद्धे बहुवानरभक्षकः ॥ अमावास्यादिने शोकादवहारो बभूव ह । फाल्गुनादिप्रतिपदश्चतुर्थ्यन्तदिनैस्ततः ॥ नरान्तकप्रभृतयो निहताः पञ्च राक्षसाः । पञ्चम्याः सप्तमी यावदतिकायवधस्त्र्यहात् ॥ अष्टम्या द्वादशी यावन्निहतौ दिनपञ्चकात् । निकुम्भकुम्भावूर्द्ध्वन्तु मकराक्षश्चतुर्द्दिनैः ॥ फाल्गुनस्य द्बितीयायां कृष्णे शक्रजिता जितम् । तृतीयायास्तु सप्तम्यां हरयः पञ्चवासरात् ॥ ओषध्यानयने व्यग्रास्तदासीदवहारकः । तत्र त्रयोदशीं यावद्दिनैः षड्भिस्तु शक्रजित् ॥ लक्ष्मणेन हतो युद्धे विघ्नितोऽभिचरन् क्रमात् । चतुर्द्दश्यां दशग्रीवरणदीक्षाविधिः क्रमात् ॥ अमावास्यां ययौ वीरो युद्धाय दशकन्धरः । चैत्रशुक्लप्रतिपदः पञ्चमी दिनपञ्चकैः ॥ रावणस्य प्रधानानां युध्यतामभवत् क्षयः । चैत्रषष्ठ्यष्टमी यावन्महापार्श्वादिमारणम् ॥ चैत्रशुक्लनवम्यान्तु सौमित्रेः शक्तिभेदनम् । द्रोणाद्रिराञ्जनेयेन लक्ष्मणार्थमुपाहृतः ॥ दशम्यामवहारोऽभूद्रात्रौ युद्धं नृरक्षसोः । एकादश्यान्तु रामाय रथो मातलिसारथिः ॥ अष्टादशदिनै रामो द्वैरथे रावणं वधीत् । द्वादश्याः शुक्लपक्षस्य यावत् कृष्णचतुर्द्दशीम् ॥ माघशुक्लद्वितीयायाश्चैत्रकृष्णचतुर्द्दशीम् । अष्टाशीतिदिनं युद्धं मध्ये पञ्चदशाहकम् ॥ युद्धावहारः संग्रामस्त्रिसप्ततिदिनान्यभूत् । संस्कारो रावणादीनाममावास्यादिनेऽभवत् ॥ वैशाखादितिथौ रामः सुवेलं पुनरागतः । अभिषिक्तो द्बितीयायां लङ्काराज्ये विभीषणः ॥ सीताशुद्धिस्तृतीयायां देवेभ्यो वरलम्भनम् । वैशाखस्य चतुर्थ्यान्तु रामः पुष्पकमास्थितः ॥ पूर्णे चतुर्द्दशे वर्षे पञ्चम्यां माधवस्य तु । भरद्वाजाश्रमं रामः ससीतः पुनरागमत् ॥ नन्दिग्रामे तु षष्ठ्यां वै भरतेन समागमः । सप्तम्यामभिषिक्तोऽसावयोध्यायां रघूत्तमः ॥ जानकी रामसहिता रावणस्य निवेशने । मनुमासान् स्थिता पञ्चदशवासरसंयुतेति ॥’ यत्तु सर्व्वांशे अनिश्चितप्रामाण्यम् । कालिका- पुराणादिविरोधात् । इदं कल्पान्तरविषयमिति न युक्तम् । तद्बिरोधादेव । तस्मात् क्रियाविरोधे पुराणेषु उपसंहार एव न्याय्यः । शाखा- न्तरोक्ताङ्गोपसंहारवत् । यथा कुम्भकर्णवधो- ऽत्र रामेणोक्तो भारते लक्ष्मणेन तादृशे विषये न तु कल्पभेदेन व्यवस्था । जन्मविषये एव तु हरिवंशोक्ता सेति बोध्यम् ।” इति श्रीरामायण- तीलके लङ्काकाण्डे ११० सर्गः ॥)
तस्य परि- पूर्णतमत्वं यथा, —
“सर्व्वे चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । परिपूर्णतमो रामी ब्रह्मशापात् स्वविस्मृतः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११६ अध्यायः ॥ अथ श्रीराममन्त्राः । “अनन्तोऽग्न्यासनः सेन्दुर्ब्बीजं रामाय हृन्मनुः । षडक्षरोऽयमादिष्टो भजतां कामदो मनुः ॥” * तस्य तारकब्रह्ममन्त्रो यथा, —
“सर्व्वेषां राममन्त्राणां मन्त्रराजः षडक्षरः । तारकब्रह्म चेत्युक्तं तेन पूजा प्रशस्यते ॥” तन्मन्त्रश्च रां रामाय स्वाहा । इति रामा- र्च्चनचन्द्रिकायाम् ४ पटलः ॥ अस्य पूजा- प्रयोगः । प्रातःकृत्यादि वैष्णवोक्तपीठन्यासान्तं कर्म्म विधाय ऋष्यादिन्यासं कुर्य्यात् । शिरसि ॐ ब्रह्मणे ऋषये नमः । मुखे गायत्त्रीच्छन्दसे नमः । हृदि श्रीरामाय देवतायै नमः । ततः कराङ्गन्यासौ । रां अङ्गुष्ठाभ्यां नमः । रीं तर्ज्जनीभ्यां स्वाहा । रूं मध्यमाभ्यां वषट् । रैं अनामिकाभ्यां हुम् । रौं कनिष्ठाभ्यां वौषट् । रः करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । ततो मन्त्रन्यासः । ब्रह्मरन्ध्रे रां नमः । भ्रूमध्ये रा नमः । हृदि मा नमः ॥ नाभौ य नमः । लिङ्गे न नमः ॥ पादयोर्म नमः । ततो मूर्त्ति- पञ्जरादिविधिं विधाय देवं ध्यायेत् । “कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्या- सिनं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥” एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् । ततः पीठपूजां विधाय वैष्ण- वोक्तपीठशक्तीः पीठमनुञ्च संपूज्य पुनर्ध्यात्वा वाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाया- वरणपूजामारभेत् । यथा देववामपार्श्वे श्रीं सीतायै नमः । अग्रे ॐ शार्ङ्गाय नमः । दक्षिणवामपार्श्वयोः ॐ शरेभ्यो नमः । ॐ चापाय नमः तद्बहिः केशरेषु अग्न्यादिकोणेषु मध्ये दिक्षु च रां हृदयाय नमः । इत्यादिना षडङ्गानि पूजयेत् । ततो दलेषु पूर्ब्बादिदिक्षु ॐ हनुमते नमः । ॐ सुग्रीवाय नमः । ॐ भरताय नमः । ॐ विभीषणाय नमः । ॐ लक्ष्मणाय नमः । ॐ अङ्गदाय नमः । ॐ शत्रु- घ्नाय नमः । ॐ जाम्बुवते नमः । दलाग्रेषु ॐ सृष्टाय नमः । ॐ जयन्ताय नमः । ॐ विजयाय नमः । ॐ सुराष्ट्राय नमः । ॐ राष्ट्र- वर्द्धनाय नमः । ॐ अकोपाय नमः । ॐ धर्म्म- पालाय नमः । ॐ सुमन्त्राय नमः । तद्बहि- रिन्द्रादीन् वज्रादींश्च पूजयेत् । ततो धूपादि- विसर्ज्जनान्तं कर्म्म समापयेत् ॥ * ॥
अस्य पुरश्चरणं षड्लक्षजपः । तथा च । “ऋतुलक्षं जपेन्मन्त्रं दशांशं कमलैः शुभैः । जुहुयादर्च्चिते बह्नौ ब्राह्मणान् भोजयेत्ततः ॥” अयं मन्त्रः षड्विधः । तथा च । “स्वकामशक्तिवाक्लक्ष्मीताराद्यः पञ्चवर्णकः । षडक्षरः षड्विधः स्यात् चतुर्व्वर्गफलप्रदः ॥ ब्रह्मा सम्मोहनः शक्तिर्दक्षिणामूर्त्तिरुच्यते । अगस्त्यः श्रीशिवः प्रोक्तो मुनयोऽत्र क्रमादिमे ॥ अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः । छन्दो गायत्त्रीसंज्ञञ्च श्रीरामश्चैव देवता ॥ ध्यानपूजादिकं सर्व्वं पूर्व्ववच्च समाचरेत् ॥” तथा । “जानकीवल्लभं ङेऽन्तं वह्नेर्जाया हुमादिकम् । दशाक्षरोऽयं मन्त्रः स्याद्वशिष्ठस्तु ऋषिर्विराट् ॥ छन्दस्तु देवता रामः सीतापाणिपरिग्रहः । आद्यं बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ शिरोललाटभ्रूमध्यतालुकण्टेषु हृद्यपि । नाभ्यूरुजानुपादेषु दशवर्णान् न्यसेन्मनोः ॥” * ॥
ततो ध्यानम् । “अयोध्यानगरे चित्ररत्नसौवर्णमण्डपे । मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ सिंहासनसमारूढं पुष्पकोपरि राघवम् । रक्षोभिर्हरिभिर्दैवैर्दिव्ययानगतैः शुभैः ॥ संस्तूयमानं मुनिभिर्गन्धर्व्वैः परिशोभितम् । सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपशोभितम् ॥ श्यामं प्रसन्नवदनं सर्व्वाभरणभूषितम् । ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥” अन्यत् सर्व्वं पूर्ब्बवत् ॥ * ॥
“वह्निर्नारायणेनाढ्यो जठरः केवल एव च । द्ब्यक्षरो मन्त्रर जोऽयं सर्व्वाभीष्टफलप्रदः ॥ श्रीमाया मन्मथैकैकबीजाद्यन्तगतो मनुः । चतुर्व्वर्णः स एव स्यात् षड्वर्णो वाञ्छितप्रदः ॥ स्वाहान्तो हुं फडन्तो वा नमोऽन्तो वा भवेन्मनुः ॥” तथा । “तारमायारमानङ्गवाक्स्वबीजैस्तु षड्विधः । त्र्यक्षरो मन्त्रराजः स्यात् सर्व्वाभीष्टफलप्रदः ॥ द्व्यक्षरश्चन्द्रभद्रान्तो चन्द्रोऽयं चतुरक्षरः । रामाय हृन्मनुः प्रोक्तो मन्त्रः पञ्चाक्षरः परः ॥ पञ्चाशन्मातृकावर्णः प्रत्येकपूर्ब्बको मनुः । लक्ष्मीवाक्मन्मथादिश्च ताराद्यः स्यादनेकधा ॥ तेन अं राम । आं राम । इत्यादि त्र्यक्षरः । तथा लक्ष्मीवाक्मन्मथादीनामन्यतमदानेऽपि त्र्यक्षरः । तेन श्रीं राम । ऐं राम । क्लीं राम इति । “वह्निस्थं शयनं विष्णोरर्द्धचन्द्रविभूषितम् । एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ ब्रह्मा मुनिः स्याद्गायत्त्री च्छन्दो रामस्तु देवता ॥” * ॥
एकाक्षरे तु द्वादशलक्षजपः पुरश्चरणम् । तथा च । भानुलक्षं जपेन्मन्त्रं इति वचनात् अन्येषां षड्लक्षजप इति विशेषः । ध्यानपूजा- दिकं षडक्षरवत् ॥ * ॥
अथ श्रीरामचन्द्र- प्रयोगः । “जातीप्रसूनैर्ज्जुहुयादिन्दिरावाप्तये नरः । जातीप्रसूनैर्ज्जुहुयाच्चन्दनाम्भःसमुक्षितैः ॥ राजवश्याय कमलैर्धनधान्यादिसम्पदः । नीलोत्पलानां होमेन वशयेदखिलं जगत् ॥ विल्वप्रसूनैर्ज्जुहूयादिन्दिरावाप्तये नरः । दूर्व्वाहोमेन दीर्घायुर्भवेन्मन्त्री निरामयः ॥ रक्तोत्पलहुतान्मन्त्री धनमाप्नोति वाञ्छितम् । मेधाकामेन होतव्यं पलाशकुसुमैर्न्नरैः ॥ तज्जप्तमम्भः प्रपिबेत् कविर्भवति वत्सरात् । तन्मिश्रितान्नं भुञ्जीत महदारोग्यवर्द्धनम् ॥” * ॥
अथ श्रीरामचन्द्रस्तोत्रम् । श्रीहनूमानुवाच । “तिरश्चामपि राजेति समवायं समीयुषाम् । यथा सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ सकृदेव प्रपन्नाय विशिष्टायैव यत् प्रियम् । विभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ यो महान् पूजितो व्यापी महाब्धेः करुणा- मृतम् । स्तुतं जटायुना येन महाविष्णुं नमाम्यहम् ॥ तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः । प्रकाशते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥ सर्व्वतोमुखता येन लीलया दर्शिता रणे । राक्षसेश्वरयोधानां तं वन्दे सर्व्वतोमुखम् ॥ नृभावन्तु प्रपन्नानां हिनस्ति च यथा नृषु । सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ॥ यस्माद्विभ्यति वातार्कज्वलनेन्द्राः समृत्यवः । भियं धिनोति पापानां भीषणं तं नमाम्यहम् ॥ परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् । ददात्येव निजौदार्य्याद्यस्तं भद्रं नमाम्यहम् ॥ यो मृत्युं निजदासानां मारयत्यखिलेष्टदः । तत्रोदाहृतयो बह्व्यो मृत्युमृत्युं नमाम्यहम् ॥ यत्पादपद्मप्रणतो भवेदुत्तमपूरुषः । तमीशं सर्व्वदेवानां नमनीयं नमाम्यहम् ॥ आत्मभावं समुत्क्षिप्य दास्येनैव रघूत्तमम् । भजेऽहं प्रत्यहं रामं ससीतं सहलक्षणम् ॥ तित्यं श्रीरामभक्तस्य किङ्करा यमकिङ्कराः । शिवमय्यो दिशस्तस्य सिद्ध