संस्कृत-शब्दकोशः

रामकर्पूरक रामचन्द्र

रामगिरि

वाचस्पत्यम्

रामगिरि ||‍ पु० रामाश्रितः गिरिः । चित्रकूटपर्वते स हि रामेण वनवासगमनकाले प्रथममाश्रितः ।


शब्दकल्पद्रुमः

रामगिरिः || पुं, (रामाश्रितो गिरिः । रामो रमणीयो गिरिर्वा ।)
पर्व्वतविशेषः । चित्र- कूटपर्व्वतः । इति कश्चित् ॥ यथा, —
“कश्चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तं गमितमहिमा वर्षभोग्येन भर्त्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्य्याश्रमेषु ॥” इति मेघदूतः ॥ १ ॥



Correction: