संस्कृत-शब्दकोशः

रामजननी रामठी

रामठ

वाचस्पत्यम्

रामठ ||‍ न० रमठ + स्वार्थे अण् । १ हिङ्गुनि अमरः । तत्तुल्यगन्धके २ अङ्कोटकवृक्षे रत्नमा० । नाडीहिङ्गनि स्त्री राजनि० ङीप्


शब्दकल्पद्रुमः

रामठं || क्ली (रम्यतेऽनेनेति । रम + “रमेर्वृद्धिश्च ।” उणा० १ । १०३ । इति अठः वृद्धिश्च धातोः ।)
हिङ्गु । इत्यमरः । १ । १०३ ॥ (यथा, सुश्रुते । ५ । १ । “तत्र नस्याञ्जने कुष्ठं रामठं नलदं मधु । कुर्य्यात् शिरीषरजनीचन्दनैश्च प्रलेपनम् ॥”)


शब्दकल्पद्रुमः

रामठः || पुं, (रम् + अठः । वृद्धिश्च ।)
अङ्कोठ- वृक्षः । इति रत्नमाला ॥ (जनपदविशेषः । यथा, बृहत्संहितायाम् । १० । ५ । “रौद्रस्थे पारतरामठतैलिकरजकचौराश्च ॥” तद्देशवासिनश्च । यथा, महाभारते । २ । ३२ । १२ । “रामठन् हारहूणांश्च प्रतीच्याश्चैव ये नृपाः । तान् सर्व्वान् स वशे चक्रे शासनादेव पाण्डवः ॥”)



Correction: