संस्कृत-शब्दकोशः

रामा रामालिङ्गनकाम

रामायण

वाचस्पत्यम्

रामायण ||‍ न० । रामस्यायनं चरितमधिकृत्य कृतो ग्रन्थोऽण् । रामचरितप्रतिपादके वाल्मीकिकृते महाकाव्यभेदे तच्च सप्तकाण्डात्मकम् ब्रह्मलोके कोटिश्लोकात्मकं मनुष लोके च चतुर्विंशतिसाहस्रं पञ्चशतसर्गयुतम् । तत्प्रतिपाद्यविषयाश्च गह० पु० १४८ अ० उक्त यथा ||‍“मनोरिक्ष्वाकुवंश्योऽभूत् वंशे राजा रघुः स्मृतः रघो रजस्ततो जातो राजा दशरथो वली । तस्य पुत्रास्तु चत्वारो महाबलपराक्रमाः । कोशल्याया- मभूद्रामा भरतः केकयीसुतः। सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः । रामो क्तः पितुर्मातुर्विश्वामित्रा- दवाप्तवान् । अस्त्रग्रामं यतो यक्षीं ताडकां प्रजथान ह । विश्वामित्रस्य यज्ञे तु सुबाहुं न्यबधीद्बली । जनं- कस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् । उर्म्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् । शत्रुघ्नो वै कीर्त्तिमतीं कुशध्वजसुते च ते । पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः । थुधाजितं मातुलञ्च शत्रुघ्न- भरतौ गतौ । गतयोर्नृपवर्य्येण राज्यं दातुं समुद्य- तम् । रामाय ज्येष्ठपुत्राय कैकेय्या प्रार्थितं तदा । चतुर्दश समावासो वने रामस्य वाञ्छितः । रामः पितृ- हितार्थन्तु लक्ष्मणेन च सीतया । राज्यं च तृणवत् त्यक्त्वा शृङ्गवेरपर गतः । रथं त्यक्त्वा प्रयागञ्च चित्र- कूटं गिरिं गतः । रामस्य तु वियोगेन राजा स्वर्गं स- माश्रितः । संस्कृत्य भरतश्चागात् रामं मातृगणान्वितः । अयोध्यान्तु समागत्य राज्यं कुरु महामते! । स नैच्छत् पादुके दत्त्वा राज्याय मरताय तु । विसर्ज्जितोऽथ भरतो रामराज्यमपालयत् । नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद् व्रती । रामोऽपि चित्रकूटाच्च अत्रे- राश्रममाययौ । नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्य- मागतः । तत्र सुर्पनखा नाम राक्षसी सहसागता । निकृत्य कर्णौ नासे च रामेणाथ पराहिता । तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा । चतुर्द्दशसहस्रेण रक्ष- सान्तुःबलेम च । रामोऽपि प्रेषयामास बाणैर्यमपुरञ्च तान् । राक्षस्या प्रेरितोऽभ्यागात् रावणो हरणाय हि । मृगरूपं स मारीचं लत्वाग्रेऽथ त्रिदण्डधृक् । सीतया प्रेरितो रामो मारीचं प्रजथान ह । म्रिय- माणः स च प्राह हा सीते! लक्ष्मणेतिं च । सीतोक्तो सक्ष्मणोऽथागाद्रामश्चाशु ददर्श तम् । उवा च राक्षसी माया नूनं सीता हृतेति सा । रावणोऽन्तरमासाद्य अङ्के नादाय जानकीम् । जटायुषं विनिर्जित्य ययौ लङ्कां ततो बली । अशोकवृक्षच्छायायां रक्षितां तामधारयत् । आगत्य रामः शून्याञ्च पर्णशालां ददर्श ह । शोकं कृत्वाथ जानक्या मार्गणं कृतवान् प्रमुः । जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम् । गत्वा सख्यं ततश्चक्रे सुग्रीपेण च राचवः । सप्ततालान् विनिर्मिद्य किष्कि- न्ध्याया हरीश्वरा । सुग्रीवं कृतवान राम ऋष्यमूके स्वयं स्थितः सुग्रीवः प्रेषयामास वानरान् पर्वतोप- मान् । सीताया मार्गणं कर्त्तुं पूर्वादौ सुमहाबलान् । प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः । दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम् । वनानि पर्वतान् द्वीपान् नदीनां पुलिनानि च । जानकीं ते ह्यपश्यन्तो मरणे कृतनिश्चयाः । सम्पातिवचनात् ज्ञात्वा हनूमान् कपिकुञ्जरः । शतयोजनविस्तीर्ण पुप्लुवे मकरालयम् अपश्यज्जानकीं तत्र अशोकवनिकास्थिताम् । भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा । भव भार्य्येति वदता चिन्तयन्तीञ्च राघवम् । अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् । रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि! । अभिज्ञानञ्च मे देहि येन रासः स्मरिष्यति । तत् श्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते । यथा रामो नयेत् शीघ्रं तथा वाच्यं त्वया गते । तथेत्युक्त्वा तु हनुमान् वनं दिव्यं बभञ्ज तत् । हत्वाक्षं राक्षसांञ्चा न्यान् बन्धनं स्वयमागतः स्वर्वैरिन्द्रजितो बाणैदृष्ट्वा रावणमव्रीत् । रामदूतोऽस्मि हनुमान् देहि रामाय मैथिलीम् । एतत् श्रुत्वा प्रकुपितो दीपयामास पुच्छकम् । कपिर्ज्वलितलाङ्गूलो लङ्कां देहे महाबलः । दग्ध्वा लङ्कां समायात रामपार्श्वं स वानरः । जाब्वा फलं मधुवने दृष्टा सीतेत्यवेदयत् । मणिरत्नञ्च रामाय रामो लङ्कां ययौ पुरीम् । ससुग्रीवः सहनुमानङ्गदाद्यैः सलक्ष्मणः । विभीषणोऽपि संप्राप्तः शरणं राघवं प्रति । लङ्कैश्वर्य्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम् । रामो नलेन सेतुञ्च कृत्वाब्धौ चोच्छ्रितायतम् । सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्श ह । अथ ते वानरा वीरा नीलाङ्गदनला दयः । धूम्रधूम्राक्षधूम्रेन्द्राजाम्बवत्प्रमुखास्तदा । मैन्द- द्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे । राक्षसांश्च महा- कायान् कालाञ्जनचयोपमान् । रामः सलक्ष्मणो हत्वा सकपिः सर्वराक्षसान् । विद्युज्जिह्वञ्च धूम्राक्षं देवा- न्तकनरान्तकौ । महोदरमहापार्श्वावतिकायं महाबलम् । कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् । प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् । रावणं ब्रह्मणश्छित्त्वा ह्यस्त्राद्यै राघवो वली । निकृत्य बाहुपक्त्राणि रावणन्तु व्यपातयत् । सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः । सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् । तत्र राज्यं चकाराथ पुत्रवत् पालयन् प्रजाः । दशा- श्वमेधानाहृत्य गयाशिरसि पातनम् । पिण्डानां विधि- वत् कृत्वा दत्त्वा दानानि राघवः । पुत्रौ कुशलवौ सृष्ट्वा तौ च राज्येऽभ्यषेचयत् । एकादशसहस्राणि रामो राज्यमकारयत् । शत्रुघ्नो लवणं हत्वा शैलूषं भरतः स्थितः । अगस्त्यादिमुनीनाञ्च समुत्पत्तिञ्च रक्षसाम् । स्वर्गं गतो जनैः सार्द्धमयोध्यस्थैः कृतान्तकः” । अन्य- दपि व्यासप्रणीते पद्मपु० अध्यात्मरामायणं वाल्मीकि- कृतमद्भुतरामायणं चास्ति ।


शब्दकल्पद्रुमः

रामायणं || क्ली (रामस्य चरितान्वितं अयनं शास्त्रम् ।)
रामेण रावणवधकाव्यम् । इति त्रिकाण्डशेषः ॥ तच्च शतकोटिसंख्यकम् । यथा । स्कान्दे पातालखण्डे अयोध्यामाहात्म्ये तत्रत्य- तीर्थाश्रमवर्णनप्रस्तावे । “शापोक्त्या हृदि सन्तप्तं प्राचेतसमकल्मषम् । प्रोवाच वचनं ब्रह्मा तत्रागत्य सुसत्कृतः ॥ न निषादः स वै रामो मृगयाञ्चर्त्तुमागतः । तस्य संवर्णनेनैव सुश्लोक्यस्त्वं भविष्यसि ॥ इत्युक्त्वा तं जगामाशु ब्रह्मलोकं सनातनः । ततः संवर्णयामास राघवं ग्रन्थकोटिभिः ॥” कोटिभिः शतकोटिभिः । चरितं रघुनाथस्य शतकोटिप्रविस्तरमित्यन्यत्रोक्तेः । तच्च संपूर्णं ब्रह्मलोके इत्यैतिह्यम् ॥ इह तु कुशलवोपदिष्टा चतुर्विंशतिसाहस्रीत्यलम् । इति रामायण- टीकायां नागोजीभट्टः ॥ * ॥
तथा हि । “प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवान् ऋषिः । चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ चतुर्विंशत्सहस्राणि श्लोकानामुक्तवान् ऋषिः । तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम् ॥ इति रामायणे वाल्मीकीये बालकाण्डे ३ सर्गः ॥ संक्षिप्तरामचरित्रं यथा, —
“रामायणमथो वक्ष्ये श्रुतं पापविनाशनम् । विष्णुनाभ्यब्जजो ब्रह्मा मरीचिस्तत्सुतः स्मृतः ॥ मरीचेः कश्यपस्तस्मात् परस्तस्मात् मनुः सुतः । मनोरिक्षाकुवंश्योऽभूद्वंशे राजा रघुः स्मृतः ॥ रघोरजस्ततो जातो राजा दशरथो बली । तस्य पुत्त्रास्तु चत्वारो महाबलपराक्रमाः ॥ कौशल्यायामभूद्रामो भरतः केकयीसुतः । सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः ॥ रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान् । अस्त्रग्रामं यतो यक्षीं ताडकां प्रजघान ह ॥ विश्वामित्रस्य यज्ञे तु सुबाहुं न्यवधीद्बली । जनकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् ॥ उर्म्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् । शत्रुघ्नो वै कीर्त्तिमतीं कुशध्वजसुते च ते ॥ पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः । युधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ ॥ गतयोर्नृपवर्य्येण राज्यं दातुं समुद्यतम् । रामाय ज्येष्ठपुत्त्राय कैकेय्या प्रार्थितं तदा । चतुर्द्दशसमा वासो वने रामस्य वाञ्छितः ॥ रामः पितृहितार्थन्तु लक्ष्मणेन च सीतया । राज्यञ्च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः । रथं त्यक्त्वा प्रयागञ्च चित्रकूटं गिरिं गतः ॥ रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः । संस्कृत्य भरतश्चागात् रामं मातृबलान्वितः ॥ अयोध्यान्तु समागत्य राज्यं कुरु महामते । स नैच्छत् पादुके दत्त्वा राज्याय भरताय तु ॥ विसर्ज्जितोऽथ भरतो रामराज्यमपालयत् । नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती ॥ रामोऽपि चित्रकूटाच्च अत्रेराश्रममाययौ । नत्वा अभीक्ष्णं चागस्त्यं दण्डकारण्यमागतः ॥ तत्र सूर्पनखा नाम राक्षसीसार्द्धमागता । निकृत्य कर्णौ नासे च रामेणाथ पराहिता ॥ तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा । चतुर्द्दशसहसेण रक्षसान्तु बलेन च ॥ रामोऽपि प्रेषयामास वाणैर्यमपुरञ्च तान् । राक्षस्या प्रेरितोऽभ्यागात् रावणो हरणाय हि ॥ मृगरूपं स मारीचं कृत्वाग्रेऽथ त्रिदण्डधृक् । सीतया प्रेरितो रामो मारीचं प्रजघान ह ॥ म्रियमाणः स च प्राह हा सीते लक्ष्मणेति च । सीतोक्तो लक्ष्मणोऽथागाद्रामश्चाशु ददर्श तम् ॥ उवाच राक्षसी माया नूनं सीता हृतेति सा । रावणोऽन्तरमासाद्य अङ्केनादाय जानकीम् ॥ जटायुषं विनिर्ज्जित्य ययौ लङ्कां ततो बली । अशोकवृक्षच्छायायां रक्षितां तामधारयत् ॥ आगत्य रामः शून्यञ्च पर्णशालां ददर्श ह । शोकं कृत्वाथ जानक्या मार्गणं कृतवान् प्रभुः ॥ जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम् । गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः ॥ सप्ततालान् विनिर्भिद्य शरेणानतपर्व्वणा । वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरम् ॥ सुग्रीवं कृतवान् रामो ऋष्यमूके स्वयं स्थितः । सुग्रीवः प्रेषयामास वानरान् पर्व्वतोपमान् ॥ सीताया मार्गणं कर्त्तुं पूर्ब्बाद्यैः सुमहाबलान् । प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः ॥ दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम् । वनानि पर्व्वतान् द्वीपान् नदीनां पुलिनानि च ॥ जानकीं ते ह्यपश्यन्तो मरणे कृतनिश्चयाः । सम्पातिवचनात् ज्ञात्वा हनूमान् कपिकुञ्जरः ॥ शतयोजनविस्तीर्णं पुप्लुवे मकरालयम् । अपश्यज्जानकीं तत्र अशोकवनिकास्थिताम् ॥ भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा । भव भार्य्येति वदता चिन्तयन्तीञ्च राघवम् ॥ अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् । रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि ॥ अभिज्ञानञ्च मे देहि येन रामः स्मरिष्यति । तत् श्रुत्वा प्रददौ सीता वेणी रत्नं हनूमते ॥ यथा रामो नयेत् शीघ्रं तथा वाच्यं त्वया गते । तथेत्युक्त्वा तु हनुमान् वनं दिव्यं बभञ्ज तत् ॥ हत्वाक्षं राक्षसांञ्चान्यान् बन्धनं स्वयमागतः । सर्व्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत् ॥ रामदूतोऽस्मि हनुमान् देहि रामाय मैथि- लीम् । एतत् श्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ॥ कपिज्र्ज्वलितलाङ्गूलो लङ्कागेहे महाबलः । दग्ध्वा लङ्कां समायातो रामपार्श्वं स वानरः ॥ जग्ध्वा फलं मधुवने दृष्ट्वा सीतेत्यवेदयत् । मणिरत्नञ्च रामाय रामो लङ्कां ययौ पुरीम् ॥ ससुग्रीवः सहनुमानङ्गदाद्यः सलक्ष्मणः । विभीषणोऽपि संप्राप्तः शरणं राववं प्रति ॥ लङ्कैश्वर्य्येष्वभ्यसिञ्चद्रामस्तं रावणानुजम् । रामो नलेन सेतुञ्च कृत्वाब्धौ चोच्छ्रितायतम् ॥ सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्श ह । अथ ये वानरा वीरा नीलाङ्गदनलादयः ॥ धूम्रधूम्राक्षधूम्रेन्द्रा जाम्बवत्प्रमुखास्तदा । मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां नभञ्जिरे ॥ राक्षसांश्च महाकायान् कालाञ्जनचयोपमान् । रामः सलक्ष्मणो हत्वा सकपिः सर्व्वराक्षसान् ॥ विद्युज्जिह्वञ्च घूभ्राक्षं वेदान्तकनरान्तकौ । महोदरमहापार्श्वावतिकायं महाबलम् ॥ कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् । प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् ॥ रावणिं लक्ष्मणश्छित्त्वा ह्यस्त्राद्यै राघवो बली । निकृत्य बाहू वक्त्राणि रावणन्तु व्यपातयत् ॥ सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः । सवानरः समायातो ह्ययोध्याप्रवरं पुरम् ॥ तत्र राज्यं चकाराथ पुत्त्रवत् पालयन् प्रजाः । दशाश्वमेधानाहृत्य गयाशिरसि पातनम् ॥ पिण्डानां विधिवत् कृत्वा दत्त्वा दानानि राघवः । पुत्त्रौ कुशलवौ सृष्ट्वा तौ च राज्येऽभ्यषेचयत् ॥ एकादशसहस्राणि रामो राज्यमकारयत् । शत्रुघ्नो लवणं हत्वा शैलूषं भरतः स्थितः ॥ अगस्त्यादीन् मुनीन् श्रुत्वा श्रुत्वोत्पत्तिञ्च रक्ष- साम् । स्वर्गं गतो जनैः सार्द्धमयोध्यां वैकृतान्तकः ॥” इति गारुडे १४८ अध्यायः ॥ * ॥
एतदतिरिक्तं वाल्मीकिप्रणीतं सप्तविंशतिसर्ग- युक्तं सहस्रश्लोकात्मकं सीताकर्त्तृकसहस्रकन्ध- रावणवधकाव्यरूपाद्भुतोत्तरकाण्डमस्ति । तस्य प्रथमसर्गीयश्लोका यथा, —
“तमसातीरनिलयं सर्व्वेषां तपसां गुरुम् । वचसां प्रथमं स्थानं वाल्मीकं मुनिपुङ्गवम् ॥ विनयावनतो भूत्वा भारद्बाजो महामुनिः । पप्रच्छ सम्मतः शिष्यः कृताञ्जलिपुटो वशी ॥ रामायणमितिख्यातं शतकोटि प्रविस्तरम् । प्रणीतं भवता यच्च ब्रह्मलोके प्रतिष्ठितम् ॥ श्रूयते ब्रह्मणा नित्यमृषिभिः पितृभिः सुरैः । पञ्चविंशतिसाहस्रं रामायणमिदं भुवि । तदाकर्णितमस्ताभिः सावशेषं महामुने ॥ शतकोटिप्रविस्तारे रामायणमहार्णवे । किं गीतमिह यन्नास्ति तन्मे कथय सुव्रत ॥ आकर्ण्यादरिणः पृष्टं भरद्बाजस्य वै मुनिः । हस्तामलकवत् सर्व्वं सस्मार शतकोटिकम् ॥ ओमित्युक्त्वा मुनिः शिष्यं प्रोवाच वदतां वरः । भारद्वाज चिरं जीव साधु स्मारितमद्य नः ॥ शतकोटिप्रविस्तारे रामायणमहार्णवे । रामस्य चरितं सर्व्वमाश्चर्य्यं सम्यगीरितम् ॥ पञ्चविंशतिसाहस्रं नृलोके यत् प्रतिष्ठितम् । नृणां हि सदृशं रामचरितं वर्णितं मया । सीतामाहात्म्यसारं यत् विशेषादत्र नोक्त- वान् । शृणुष्वावहितो ब्रह्मन् काकुत्स्थचरितं महत् । सीताया मूलभूतायाः प्रकृतेश्चरितञ्च यत् ॥” इत्याद्यार्षे रामायणे वाल्मीकीये अद्भुतोत्तर- काण्डे आदिकाव्ये प्रथमः सर्गः ॥ * ॥
अन्यत् ब्रह्माण्ड पुराणीयोत्तरखण्डान्तर्गतैकषष्टितमाध्यायादिक- हरपार्व्वती-संवादरूपाध्यात्म-रामायणमस्ति । तत्र अध्यात्मबालकाण्डे सर्गाः सप्तैव शम्भु- नोद्दिष्टाः षष्ट्युत्तरत्रिशतश्लोकाः मोक्षप्रदा नृणाम् १ । अध्यात्मरामचरिते अयोध्याकाण्डे नवानां सर्गाणां सप्तशतानि श्लोकाः पुण्यमोक्ष- प्रदाः २ । काण्डेऽरण्येऽध्यात्माख्ये सर्गा द्विपञ्च परिक्षिप्ताः पञ्चशतानि श्लोकाः पापहराः पार्व्वतीशोक्ताः ३ । श्रीमदध्यात्मरामायणे उमा- महेश्वरसंवादे किष्किन्ध्याकाण्डे नवमः सर्गः पञ्चशतानि श्लोकाः दुरितहरा पञ्चपञ्चाशत् ४ । सुन्दरकाण्डे सर्गाः पञ्चैवाध्यात्मिकशब्दिते प्रोक्तास्त्रीणि शतानि श्लोकास्त्रिभुवनपाप- हराः ५ । काण्डे युद्धात्मके सर्गा नवसप्त नील- कण्डोक्ताः सार्द्धैकादशशतश्लोका मनुसंख्यायुता- पुण्याः ६ । अध्यात्मोत्तरकाण्डे सर्गाः ग्रह- संख्यया प्रक्षिप्ता ऋतुशतसंख्यश्लोकाः ७ । पुराणसंख्याश्च पुरा हरेणोक्ताः । “पार्व्वत्यै परमेश्वरेण गदिते ह्यध्यात्मरामायणे काण्डैः सप्तभिरन्वितेऽतिशुभदे सर्गाश्चतुः- षष्टिकाः । श्लोकानान्तु शतद्वयेन सहिता युक्तानि चत्वारि सा- हस्राण्येव समासतः श्रुतिशते सूक्तानि तत्त्वा- र्थतः ॥” इत्यध्यात्मरामायणम् ॥ * ॥
अपरं रामवशिष्ठसंवादरूपमोक्षोपायकदेव- हूतोक्तवाशिष्ठनामकमहारामायणमस्ति । तत्र प्रथमार्द्धे अष्टाविंशत्यूत्तरशतसर्गाः । तस्य आद्यन्तश्लोकौ यथा, — श्रीवाल्मीकिरुवाच । “उपशमप्रकरणादनन्तरमिदं शृणु । तन्निर्व्वाणप्रकरणं ज्ञातं निर्व्वाणदायि यत् ॥ १ ॥ य इमं शृणुयान्नित्यं विधिं रामवशिष्ठयोः । सर्व्वावस्थोऽपि श्रवणान्मुच्यते ब्रह्म ऋच्छति ॥ २ ॥ उत्तरार्द्धे षोडशोत्तरद्बिशतसर्गाः । तस्या- द्यन्तश्लोकौ यथा, — श्रीराम उवाच । “नैष्कर्म्म्यात् कल्पनात्यागात् तनुः पतति रोहितः । कथमेतदता ब्रह्मन् सम्भवत्याशु जीवतः ॥ १ ॥ यत् तर्व्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् । श्रुत्या ह्युदीर्य्यते साम्नि तस्मै ब्रह्मात्मने नमः ॥” २ ॥ अत्रादौ वैराग्यप्रकरणग्रन्थः । द्वितीयो मुमुक्षु- ग्रन्थः । तृतीय उत्पत्तिग्रन्थः । चतुर्थः स्थिति- ग्रन्थः । पञ्चमः सकलोपशमग्रन्थः । षष्ठप्रक- रणे निर्व्वाणग्रन्थः । पूर्ब्बार्द्धे सटीकग्रन्थ- संख्या १३६०० । उत्तरार्द्धे सटीकग्रन्थसंख्या २३९०० । इति श्रीमहारामायणे निर्व्वाणप्रक- रणे बालकाण्डे मोक्षोपाये देवहूतोक्ते द्बात्रिं- शत्साहस्र्यां संहितायां वाशिष्ठे ब्रह्मदर्शने उत्तरार्द्धे षोडशोत्तरद्विशततमः सर्गः ॥



Correction: