संस्कृत-शब्दकोशः

रामसेनक रामायण

रामा

वाचस्पत्यम्

रामा ||‍ स्त्री रमतेऽनया रम—करणे घञ् । १ गीतादिकलाभि- ज्ञायां नार्य्यां २ नारीमात्रे भावप्र० ३ नद्याम् ४ हिङ्गुनि मेदि० ५ हिङ्गुले पु० ६ श्वेतकण्टकार्य्या ७ गृहकन्यायां ८ अशोके ९ गोरोचनायां १० बालायां ११ गैरिके च स्त्री शब्दच० ।


शब्दकल्पद्रुमः

रामा || स्त्री (रमते रमयतीति वा । रम + ज्वलादित्वात् णः । टाप् । रमतेऽनयेति । करणे घञ् वा ।)
उत्कृष्टस्त्रीविशेषः । इत्य- मरः । २ । ६ । ४ ॥ गीतकलाभी रमते रामा । इति भरतः ॥ (यथा, भागवते । ३ । २३ । ४३ । “विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्षपूगान् मुहूर्त्तवत् ॥”)
योषा । (यथा, रघुः । ५ । ४९ । “स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्य्यन्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥”)
हिङ्गु । नदी । इति मेदिनी ॥ हिङ्गुलम् । इति शब्दरत्नावली ॥ श्वेतकण्टकारी । गृहकन्या । आरामशीतला । अशोकः । गोरोचना । इति राजनिर्घण्टः ॥ वाला । गैरिकम् । इति शब्द- चन्द्रिका ॥



Correction: