वाचस्पत्यम्
रावणि || पु० रावणस्यापत्यम् इञ् । मेघनादाख्ये रावणज्येष्ठ- पुत्रे हेमच० ।
शब्दकल्पद्रुमः
रावणिः || पुं, (रावणस्यापत्यमिति । वारण + “अत इञ् ।” ४ । १ । ९५ । इति इञ् ।)
रावणज्येष्ठपुत्त्रः । स च इन्द्रजित् । यथा, —
“रावणिः शत्रुजिन्मेघनादो मन्दोदरीसुतः ॥” इति हेमचन्दः । ३ । ३७० ॥ (यथा, महाभारते । ३ । २८७ । १२ । “रावणिस्तु यदा नैनं विशेषयति सायकैः । ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥” रावणपुत्त्रमात्रे । यथा, भट्टिः । १४ । ७९ । “तस्याहारिषत प्राणा मुष्टिना वालिसूनुना । प्रादुद्रुवंस्ततः क्रुद्धाः सर्व्वे रावणयोऽङ्गदम् ॥”)