संस्कृत-शब्दकोशः

राशीकृत राष्ट्रनिवासिन्

राष्ट्र

वाचस्पत्यम्

राष्ट्र ||‍ न० राज—ष्ट्रन् । जनपदे “गौडं राष्ट्रमनुत्तमम्” इति प्रबोधचन्द्रोदयः । २ उपद्रवे अमरः ।


शब्दकल्पद्रुमः

राष्ट्रं || पुं, क्ली, (राजते इति । राज् + “सर्व्व- धातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् । व्रश्चेति षः ।)
विषयः । (यथा, मनुः । ९ । २५४ । “अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः । तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥”)
उपद्रवः । इत्यमरः । ३ । ३ । १८३ ॥ विषयो जनपदः । उपद्रवो मरकादिः । इति भरतः ॥ (राष्ट्रपालननियमादिकं महाभारते १२ । ८७ अध्याये द्रष्टव्यम् ॥ * ॥
पुं, पुरूरवोवंश- जातस्य काशेः पुत्त्रः । यथा, भागवते । ९ । १७ । ४ । “काश्यस्य काशिस्तत्पुत्त्रो राष्ट्रो दीर्घतमः पिता ॥”)



Correction: