संस्कृत-शब्दकोशः

रासेश्वरी राहु

रास्ना

वाचस्पत्यम्

रास्ना ||‍ स्त्री रस—णन् । १ स्वनामख्यातायां लतायाम् (काँटा आमरुल) । तत्पर्य्यायगुणा भावप्र० उक्ता यथा “रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सु- रसा सुस्निग्धा श्रेयसी तथा । रास्नाऽऽमपाचनी तिक्ता गुरूणा कफवातजित् । शोथश्वाससमीरास्नवातशूलोदरा- पहा । कासज्वरविषाशीतिबातिकामयसिध्महृत्” भावप्र० । ३ नाकुल्यां भावप्र० तत्पर्य्यायगुणा उक्ता यथा “नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली । नकुलेष्टा भुज- ङ्गाक्षी सर्पाक्षी विषनाशिनी । नाकुली तुवरा तिक्ता कुटुकोष्णा विनाशयेत् । भोगिलूतावृश्चिकाखुविषज्वर- क्रमिव्रणान्” ।


शब्दकल्पद्रुमः

रास्ना || स्त्री (रस्यते इति । रस आस्वादने + “रास्नासास्नास्थूणावीणाः ।” उणा० ३ । १५ । इति नप्रत्ययेन साधुः ।)
स्वनामख्यातलता- विशेषः । रासन इति हिन्दी भाषा । तत्- पर्य्यायः । नाकुली २ सुरसा ३ सुगन्धा ४ गन्ध- नाकुली ५ नकुलेष्टा ६ भुजङ्गाक्षी ७ छत्राकी ८ सुवहा ९ । इत्यमरः ॥ नाकुल्यादिपञ्चकं रास्नायाम् । नकुलेष्टादिचतुष्कं सर्पाक्ष्यामि- त्याहुः । इति तट्टीकायां भरतः ॥ रस्या १० श्रेयसी ११ रसना १२ रसा १३ सुगन्धिमूला १४ रसाढ्या १५ अतिरसा १६ द्रोणगन्धिका १७ सर्पगन्धा १८ पलङ्कषा १९ । इति जटाधरः ॥ अस्या गुणाः । गुरुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । विषवातास्रकासशोफकम्पोदरश्लेष्मनाशि- त्वम् । पाचनत्वञ्च । “रास्ना तु त्रिविधा प्रोक्ता मूलं पत्रं तृण- न्तथा । ज्ञेयौ मूलदलौ श्लिष्टौ तृणा रास्ना तु मध्यमा ॥” इति राजनिर्घण्टः ॥ अपि च । “नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली । नकुलेष्टा भुजङ्गाक्षी सर्पाक्षी विषनाशिनी ॥ नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् । भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥” इति भावप्रकाशः ॥ रास्ना शोथामवातघ्नी । इति राजवल्लभः ॥ औषधिविशेषः । काँटा आमरुली इति भाषा । तत्पर्य्यायः । एलापर्णी २ सुवहा ३ युक्त- रसा ४ । इत्यमरः ॥ अपि च । “रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुस्निग्धा श्रेयसी तथा ॥ रास्नामपाचनी तिक्ता गुरूष्णा कफवातजित् । शोथश्वाससमीरास्रवातशूलोदरापहा । काशज्वरविषाशीतिवातिकामयहिध्महृत् ॥” इति भावप्रकाशः ॥ (रशना । यथा, वाजसनेयसंहितायाम् । १ । ३० । “आदित्यै रास्नासि ।” “हे योक्त्र आदित्यै अदित्या भूम्यास्त्वं रास्रासि रशना असि ॥” इति तद्भाष्ये महीधरः ॥ रुद्रपत्नीनामन्यतमा । यथा, ब्रह्मवैवर्त्ते । १ । ९ । १३ — १४ । “नामानि रुद्रपत्नीनां सावधानं निबोध मे । कला कलावती काष्ठा कालिका कलहप्रिया ॥ कन्दली भीषणा रास्ना प्रम्लोचा भूषणा शुकी । एतासां बहवः पुत्त्रा बभूवुः शिवपार्षदाः ॥”)



Correction: