वाचस्पत्यम्
राहु || पु० रह—उण् । १ त्यक्तरि, ज्योतिश्चक्रस्थे सूर्य्य- किरणसम्पर्काभावेन जायमानपृथिवीच्छायारूपे ३ तमसि तदधिष्ठातरि ४ ग्रहभेदे, ५ सिंहिकासुते दानवे च । तमःशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
राहुः || पुं, (रह त्यागे + बहुलवचनात् उण् ।)
त्यागः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (रहति गृहीत्वा त्यजति चन्द्रभिति । रह त्यागे + बहुलवचनात् उण् । इत्युज्ज्वलः । १ । १ ।)
ग्रहविशेषः । तत्पर्य्यायः । तमः २ स्वर्भानुः ३ सैंहिकेयः ४ विधुन्तुदः ५ । इत्यमरः ॥ अस्र- पिशाचः ६ ग्रहकल्लोलः ७ सैंहिकः ८ उप- प्लवः ९ शीर्षकः १० उपरागः ११ सिंहिका- मूनुः १२ । इति शब्दरत्नावली ॥ कृष्णवर्णः १३ कवश्रः १४ । इति जटाधरः ॥ अगुः १५ असुरः १६ । इति ज्योतिस्तत्त्वम् ॥ तस्योत्- पत्त्यादिर्यथा, —
“सिंहिकायामथोत्पन्ना विप्रचित्तेश्चतुर्द्दश । शम्बः शम्बलगात्रश्च व्यङ्गः शाल्वस्तथैव च ॥ इल्वलो नमुचिश्चैव वातापी हसृपो जिकः । हरकल्पकलिनाभौ भौमश्च नरकस्तथा ॥ राहुर्ज्येष्ठश्च तेषां वै चन्द्रसूर्य्यप्रमर्द्दनः । इत्येते सिंहिकापुत्त्रा देवैरपि दुरासदाः ॥ दारुणाभिजनाः क्रूराः सर्व्वे ब्रह्मद्बिषस्तु ते । दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ॥ निहतो यामदग्न्येन भार्गवेण बलीयसा । स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता ॥” इति वह्निपुराणे प्रजापतिसर्गनामाध्यायः ॥ * ॥
तस्य शिरश्छेदकारणं यथा, —
“देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबत् चन्द्रार्काभ्याञ्च सूचितः ॥ चक्रेण क्षुरधारेण जहार पिबतः शिरः । हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत् ॥ शिरस्त्वमरतां नीतमजो ग्रहमचीक्सृपत् । यस्तु पर्ब्बणि चन्द्रार्कावभिधावति वैरधीः ॥” इति श्रीभागवते ८ स्कन्धे ९ अध्यायः ॥ स च मलयपर्व्वतजातः । शूद्रवर्णः । द्बादशा- ङ्गुलपरिमाणः । कृष्णवर्णः । कृष्णवस्त्रः । सिंह- वाहनः । चतुर्भुजः । खड्गवरशूलचर्म्मधारी । सूर्य्यास्यः । अस्य अधिदेवता कालः । प्रत्यधि- देवता सर्पः । इति ग्रहयज्ञतत्त्वम् ॥ अस्य स्वरूपं शनिवत् । स च चण्डालजातिः । सर्पाकृतिः । अस्थिस्वामी नैरृतदिक्स्वामी च । इति बृहज्जातकादयः ॥ (राहुचारस्य फलाफलं बृहत्संहितायाः ५ अध्यायतो द्रष्ट- व्यम् ॥)