संस्कृत-शब्दकोशः

रिङ्खण रिच

रिङ्गण

वाचस्पत्यम्

रिङ्गण ||‍ न रिगि—ल्युट् । स्खलने । रिखि ल्युट् । रिङ्खणमप्यत्र


शब्दकल्पद्रुमः

रिङ्गणं || क्ली (रिङ्ग + ल्युट् ।)
स्खलनम् । इत्य- मरः ॥ “द्वे धर्म्माद्युपचिताद्प्रतिष्ठायां स्वकीय- विधानादन्यथाभावे इत्यर्थः । औचित्यात् पिच्छिलादेश्च स्खलने । इति रमानाथः ॥ धर्म्मविलङ्घनं रिङ्गणमिति स्वामी ॥ बालानां हस्तपादाभ्यां चलनं रिङ्गणम् । पिच्छिलादौ पतनं स्खलनमित्यन्ये । एतन्मते भेदेऽप्यभेदोप- चारेण समे इत्युक्तम् । रग रिग लिगि गतौ अनट् । रिङ्खणमिति पाठे रखि रख रिखि सर्पणे इत्यस्य रूपम् ।” इति भरतः ॥



Correction: