वाचस्पत्यम्
रिच || विरेके (अतिशय पुरीषोत्सर्गे) रुघा० उम० सक० अनिट् । रिणक्ति रिङ्क्ते इरित् अरिचत् अरैक्षीत् अरिक्त । अति + अतिक्रम्य स्थिते आधिक्येन स्थितौ अक० । अतिरेकः वि + अति भेदे तदसत्त्वे तदसत्त्वरूपे पदार्थे च व्यतिरेकः ।
वाचस्पत्यम्
रिच || सम्पर्के वियोगे च वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । रेचयति ते रेचति । अरोरिचत् त अरेचीत् ।
शब्दकल्पद्रुमः
रिच || इर् ध ञ औ विरेके । इति कविकल्पद्रुमः ॥ (रुधा०-उभ०-अक०-अनिट् ।)
विरेकः पौनः- पुन्येन पुरीषोत्सर्गः । इति चतुर्भुजः । इर्, अरिचत् अरैक्षीत् । घ, ञ, रिणक्ति रिङ्क्ते अतिसारकी । औ, रेक्ता । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
रिच || कि सम्पर्कवियोगयोः । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-अक०-सेट् ।)
कि- रेचयति रेचति । रिङ्क्ते रिपुर्यदाक्रान्तो धनैर्म- न्त्रैश्च रेचति । रेचयन्ति च तन्नार्य्य इति हलायुधः । इति दुर्गादासः ॥