वाचस्पत्यम्
रिपु || पु० रप—उन् पृषो० । १ शत्रौ अमरः । २ चोरनामगन्धद्रव्ये राजनि० । ज्योतिषोक्ते लग्नापेक्षया ३ षष्ठस्थाने च । देहिस्थेषु षट्सु ४ कामक्रोधादिषु । “कामः क्रोधश्च मोहश्च मात्सर्य्यं मदलोभकौ । देहिस्था रिपवश्चेति” पुरा०
शब्दकल्पद्रुमः
रिपुः || पुं, (अनिष्टं रपतीति । रप वाचि + “रपे- रिच्चोपधायाः ।” उणा० १ । २७ । इति कुः इकारश्चोपधायाः । “रिफ कत्थनयुद्धनिन्दा- हिंसादानेषु । ‘ईषेः किञ्च ।’ उणा० १ । १४ । इति बाहुलकादुप्रत्ययः । रिपति केचित् पठन्ति । तत्र बाहुलकादेव ककारस्य पकारः । रिफति मोषणार्थं युध्यते हिनस्ति वा निन्द्यते च सत्- पुरुषैः ।” इति निघण्टुटीकायां देवराजयज्वा । ३ । २४ । ४ ।)
शत्रुः । इत्यमरः । २ । ८ । १० ॥ (यथा, हितोपदेशे । “नकश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः । कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥”)
शरीरस्थषड्रिपवो यथा । कामः क्रोधः लोभः मोहः मदः मात्सर्य्यश्च । तथा हि । “आस्थाय योगमवजित्य च वैरिषट्क- मावध्य चेन्द्रियगणं मनसि प्रसन्ने ॥” इत्यादि तन्त्रसारे भुवनेश्वरीस्तोत्रम् ॥ * ॥
चोरकनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥ लग्नापेक्षया षष्ठलग्नम् । तत्पर्य्यायः । षट्- कोणम् २ रिपुमन्दिरम् ३ । यथा, —
“धीस्थानं पञ्चमं ज्ञेयं यामित्रं सप्तमं स्मृतम् । द्युनं द्यूनं तथास्ताख्यं षट्कोणं रिपुमन्दि- रम् ॥” अपि च । “सुनीचगेऽस्तगेऽपि वा रिपोर्गृहेस्थिता ग्रहाः । वृथा फलं प्रकीर्त्तितं समस्तमेव सूरिभिः ॥” अन्यच्च । “अरातिव्रणयोः षष्ठे चाष्टमे मृत्युरन्ध्रयोः । व्ययस्य द्बादशस्थाने वैपरित्येन चिन्तनम् ॥” इति ज्योतिस्तत्त्वम् ॥ (ध्रुवपुत्त्रस्य शिष्टेः पुत्त्रः । यथा, हरिवशे । २ । १४-१५ । “तस्मात्शिष्टिश्च भव्यश्च घ्रुवात् शम्भुर्व्यजायत । शिष्टेराधत्त सुच्छाया पञ्चपुत्त्रानकल्मषान् ॥ रिपुं रिपुञ्जयं पुष्पं वृकलं वृकतेजसम् ॥” यदोः पुत्त्रः । यथा, भागवते । ९ । २३ । २० । “यदोः सहस्रजित् क्रोष्टानलोरिपुरितिश्रुताः ॥”)