वाचस्पत्यम्
रिप्फ || पु० रिन्फ—अच् पृषो० । लग्नापेक्षया द्वादशे ख्याने ज्यो०
शब्दकल्पद्रुमः
रिप्फं || क्ली लग्नापेक्षया द्बादशराशिः । यथा, —
“कर्म्मस्थानञ्च दशमं खं मेशूरणमास्पदम् । छिद्राख्यमष्टमं स्थानं रिप्फाख्यं द्बादशं स्मृतम् ॥” तत्र चिन्तनीयं यथा, —
“प्राप्त्यायावथ चिन्तयेद्भवगृहे रिप्फेऽथ मन्त्रिव्ययौ सौम्यस्वामियुतीक्षितैरुपचितिस्तेषां क्षतिस्त्व- न्यया ॥” इति ज्योतिस्तत्त्वम् ॥