वाचस्पत्यम्
री || क्षरणे दि० आ० अक० अनिट् । रीयते अरेष्ट ओदित् निष्ठातस्य नः । रीणः ।
वाचस्पत्यम्
री || गतौ बधे च सक० रवे अक० क्य्रा० प्वा० अनिट् । रिणाति अरैषीत् ।
शब्दकल्पद्रुमः
री || ओ ङ य क्षरणे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-अक०-अनिट् ।)
ओ, रीणः । ङ य, रीयते पयः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
री || गि रवे । वधे । गतौ । इति कविकल्पद्रुमः ॥ (क्र्या० प्वा०-पर०-अक०-सक० च-अनिट् ।)
गि, रिणाति रीणः रिणिः । रवः शब्दः । तथा च कातन्त्रादौ री गतिरेषणयोः । रेषणं वृक- ध्वनिरिति रमानाथः । रिणाति रेषते वृकः । इति शब्दार्थे भट्टमल्लः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
री || स्त्री (री + क्विप् ।)
गतिः । इति शब्दरत्ना- वली ॥ रवः । वधः । इति रीधात्वर्थदर्शनात् ॥