शब्दकल्पद्रुमः
रुक्मिणी || स्त्री (रुक्मो वर्णोऽस्त्यस्या इति । रुक्म + इनिः । ङीप् ।)
कृष्णमहिषीविशेषः । तत्प- र्य्यायः । ईः २ रमा ३ सिन्धुजा ४ सामा ५ चला ६ हीरा ७ चञ्चला ८ वृषाकपायी ९ चपला १० इन्दिरा ११ लक्ष्मीः १२ पद्मालया १३ पद्मा १४ कमला १५ श्रीः १६ हरिप्रिया १७ । इति जटाधरः ॥ अस्या विवरणं यथा, “विदर्भराजो धर्म्मात्मा भीष्मको नाम धार्म्मिकः । बभूवुस्तस्य पुत्त्रास्तु नाम्ना रुक्म्यादयः शुभाः ॥ तेषामवरजा कन्या रुक्मिणी रुक्मवर्णिनी । कमलांशेन सम्भूता सर्व्वलक्षणशोभिता ॥ राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि । साक्षाल्लक्ष्मीस्तु विज्ञेया प्राकट्येनैव पार्व्वति ॥” इति पाद्मोत्तरखण्डे ६७ अध्यायः ॥ * ॥
(रुक्मिण्या सह शिशुपालस्य विवाहघोषणा श्रीकृष्णस्य रुक्मिणीहरणं हृतायाञ्च तस्यां यादवैः सह राज्ञां तुमुलयुद्धादिकं हरिवंशे । ११६ अध्याये द्रष्टव्यम् ॥ * ॥
नारदस्य रुक्मिण्यै पारिजातपुष्पप्रदानवृत्तान्तं तत्रैव च १२२ अध्याये द्रष्टव्यम् ॥ * ॥
अस्याः सन्ततिनामानि यथा तत्रैव । १६० । ४ — ६ । “ — रुक्मिणीतनयान् शृणु । प्रद्युम्नः प्रथमं यज्ञे शम्बरान्तकरः सुतः ॥ द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः । चारुभद्रश्चारुगर्भः सुदंष्ट्रो द्रुम एवच ॥ सुषेणश्चारुगुप्तश्च चारुविन्दश्च वीर्य्यवान् । चारुवाहुः कनीयांश्च कन्या चारुमती तथा ॥”)
स्वर्णक्षीरी । इति राजनिर्घण्टः ॥